SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ wwAAN चूर्णिभाष्यावधूरिः उ० १७ सू०५-१४ कुतूहलवाञ्छ्याऽयोलोहादिहारादिकरणादिनि० ३८५ कायाः करण धरणं परिभोगं च विवर्जयेत् दूरतः परिवर्जयेत् साध्वाचारविरुद्धत्वेन भगवदननुमतत्वादिति ॥ १-२ ॥ सू० ५॥ सूत्रम्-जे भिक्खू कोउहल्लवडियाए अयलोहाणि वा तंबलोहाणि वा तउयलोहाणि वा सीसलोहाणि वा रुप्पलोहाणि वा सुवण्णलोहाणि वा करेइ करेंतं वा साइज्जइ ॥ सू० ६॥ एवं धरेइ ॥ सू० ७॥ परिभुंजइ ।। सू० ८॥ छाया- यो भिक्षुः कौतूहलप्रतिक्षया अयोलोहान् वा अपुलोहान् वा सीसकलोहान् वा रूप्यलोहान् वा सुवर्णलोहान् वा करोति कुर्वन्तं वा स्वदते ॥सू०६॥ एवं धरति ॥ सू० ७ ॥ परिभुङ्क्ते ॥ सु०८॥ चर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'कोउहल्लवडियाए' कौतूहलप्रतिज्ञया-आत्मनोविनोदाभिप्रायेण उपलक्षणाद् अन्येनापि केनचित्कारणेन 'अयलोहाणि वा' अयोलोहान् वा, तत्रायसो लोहस्य लोहान् सूत्रशालाकादिरूपेणाऽऽकृतिविशेपान् 'तंवलोहाणि वा' ताबलोहान् वा-ताम्रस्याऽऽकृतिविशेषान् वा 'तउयलोहाणि वा' त्रपुलोहान् वा, तत्र पोः-धातुविशेषस्य 'जस्ता' इति लोकप्रसिद्धस्य लोहान्-आकृतिविशेषात् 'सीसलोहाणि वा' सीसकलोहान् वा, तत्र सीसकं 'सीसा' इति लोकप्रसिद्धम् तस्याऽऽकृतिविशेषान् रुप्पलोहाणि वा रूप्यलोहान् वा, तत्र सूप्यं रजतम् तस्याऽऽकृतिविशेषान् 'सुवण्णओहाणि वा' सुवर्णलोहान् वा सुवर्णस्य कटककुण्डलाद्याकृतिविशेषान् 'करेइ' करोति-अयःप्रभृतीनामाकृतिविशेषान् मनोरञ्जनाथै यो भिक्षुः स्वयं करोति-सम्पादयति, तथा 'करेंत वा साइज्जई' कुर्वन्तं वा श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ६ ॥ एवं 'धरेइ परिभुजई' इति सूत्रद्वयमपि स्वयमूहनीयम् करण-धरण-परिभोगविषयकसूत्रत्रयस्य विशेषव्याख्या सप्तमोदेशके द्रष्टव्या ।। सू० ७-८॥ सूत्रम्-जे भिक्खू कोउहल्लवडियाए हाराणि वा अद्धहाराणि वा एगावलिं वा मुत्तावलिं वा कणगावलिं वा रयणावलिं वा कडगाणि वा तुडियाणि वा केऊराणि वा कुंडलाणि वा पट्टाणि वा मउडाणि वा पलं. बसुत्ताणि वा सुवण्णसुत्ताणि वा करेइ करेंतं वा साइज्जइ ।। सू० ९॥ एवं घरेइ० ॥ सू० १०॥ परिभुजइ ॥ सू० ११॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy