SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ चूर्णि भाष्यावचूरिः उ० १६ सू० ३०-३६ नुगुप्सितकुलस्वाध्यायाद्यशनादिपरिष्ठापननि० ३७३ सूत्रम् — जे भिक्खू दुगुछियकुलेसु सज्झायं समुद्दिसइ समुद्दिसंत वा साइज्जइ ॥ सू० ३० ॥ छाया - यो भिक्षुः जुगुप्सितकुलेषु स्वाध्यायं समुद्दिशति समुद्दिशन्तं वा स्वदते ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू यः कचिदभिक्षुः श्रमणः श्रमणी वा 'दुर्गुछियकुलेमु' जुगुप्सितकुलेषु 'सज्झायं समुद्दिसई' स्वाध्यायं समुद्दिशति - सूत्रमर्थ तदुभयं वा अनेकवारमध्यापयति तथा 'समुद्दिसंतं वा साइज्जइ' समुद्दिशन्तं श्रमणान्तरं स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ३० ॥ सुत्रम् -- जे भिक्खू दुगुंछियकुलेसु सज्झायं अणुजाणइ अणुजाणतं वा साइज्जइ ॥ सू० ३१ ॥ छाया -यो भिक्षुः जुगुप्सितकुलेषु स्वाध्याय मनुजानाति अनुजानन्तं वा स्वदते ॥ 'चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः श्रमणः श्रमणी वा 'दुछियकुलेस' जुगुप्सितकुलेषु समुपविश्य श्रमणं यं कमपि वा 'सज्झायं' स्वाध्यायम् - सूत्रार्थतदुभयात्मकं द्वादशाङ्गीलक्षणम् 'अणुजाणई' अनुजानाति - प्रशंसति तथा 'अणुजाणंतं वा साइज्जइ' मनुजानन्तं वा स्वदते - अनुमोदते स प्रायश्चिद्धभागी भवति ॥ मू० ३१ ॥ सूत्रम् —— जे भिक्खू दुर्गुछियकुलेसु सज्झायं वाएइ वायंतं वा साइज्जइ ॥ सू० ३२ ॥ छाया -यो भिक्षुः जुगुप्सितकुलेषु स्वाध्यायं वाचयति वाचयन्तं वा स्वदते ॥३२॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'दुगुंछियकुलेसु' जुगुप्सितकुलेपु 'सज्झायं वाएइ' स्वाध्यायं वाचयति -‍ - शास्त्रस्य वाचनां ददाति 'वार्यतं वा साइज्जइ' वाचयन्तम् वाचनां ददतं स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ३२ ॥ श्रमणान्तरं सूत्रम् -- जे भिक्खू दुछियकुलेसु सज्झायं पडिच्छइ पडिच्छंत वा साइज्जइ || सू० ३३ ॥ छाया -- यो भिक्षु जुगुप्सितकुलेषु स्वाध्यायं प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥ ३३ ॥ · चूर्णी – 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'दुगुछियकुळेसु' जुगुप्सितकुलेषु 'सज्झायं' स्वाध्यायं सूत्रमर्थं च 'पडिच्छन्' प्रतीच्छति - स्वीक
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy