SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ धूर्णिभाष्यावचूरिः उ० १५० १०४ - १६१षिभूषाबुद्धद्या पादप्रमार्जनादिवस्त्रादिधारणनि० ३५९ चूर्णो – 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'जायणावत्थं वा' याचनावस्त्रं वा यद् याचनेन प्राप्यते तत् तथा 'निमंतणावत्थं वा' निमन्त्रणा वस्त्रं वा यत् निमन्त्रणापूर्वकं प्राप्यते तत् एतद् द्विविधमपि वत्रं भिक्षु' 'अजाणिय' अज्ञात्वा कुत्रत आनीतम्, इत्यादि वस्त्रोत्पत्तिकारणम् अज्ञात्वा, तथा - ' अपुच्छिय' अपृष्ट्वा - तद्विषये पृच्छामकृत्वा कस्येदम्, कथं वेदं वस्त्रमासीत्, इत्यादिक्रमेण पृच्छामकृत्वा, 'अगवे सिय' अगवेषयित्वा मदर्थमेवेदं वस्त्रमनेनानीतम् अन्यार्थे वाssनीतम्, कया बुद्धया मह्यं ददातीत्यादि - क्रमेण गवेषणामकृत्वैव याचनावस्त्र निमन्त्रणावत्रमिति द्विविधमपि वस्त्रं साधुः 'पडिग्गाहेइ' प्रतिगृह्णाति - स्वीकरोति 'पडिग्गार्हतं वा साइज्जइ' प्रतिगृह्णन्तं वा अज्ञात्वा अपृष्ट्वा अगवेषयित्वा याचनानिमन्त्रणावस्त्रं प्रतिगृह्णन्तं श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति । 'से यवत्थे' तच्च द्विविधमपि वस्त्रम् 'चउण्हमण्णय रे सिया' चतुर्णामन्यतमं स्यात् वक्ष्यमाणानां चतुर्णां वस्त्राणां मध्ये अन्यतमम् एकं स्यात्, 'तं जहा ' तद्यथा - ' णिच्चणिवसणिए १, मज्जपिए २, छणूसविए ३, रायदुवारिए ४, तत्र 'णिच्चणिवसणिए' नित्य निवसनिकम्-यत् नित्यं परिधीयते तत् १, 'मज्जणिए' मज्जनिकं - यत् स्नानावसरे परिधीयते तत् २, 'छणूसविए' क्षणौत्सविकम् - यत् विवाहाद्युत्सवे परिधीयते तत् २, 'रायदुवारिए' राजदौवारिकम् - यत् राजद्वारे सभादौ वा गमनसमये परिधीयते तत् ४, एवं चतुर्विघं वस्त्रं भवति, एष्वन्यतमं याचनावस्त्रं निमन्त्रणावस्त्रं च अज्ञानाऽपृच्छनाऽगवेषणापूर्वकं यो भिक्षुः प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते स आज्ञाभङ्गादिदोषभाग् भवतीति ॥ सू० १०४ ॥ - - सूत्रम् — जे भिक्खू विभूसावडियाए अप्पणो पाए आमज्जेज्ज वा पमज्जेज्ज वा आमज्जंतं वा पमज्जेत वा साइज्जइ ॥ सू० १०५ ॥ छाया -यो भिक्षुर्विभूषाप्रत्ययेन आत्मनः पादौ आमार्जयेद्वा, प्रमार्जयेद्वा आमाजयन्तं वा प्रमार्जयन्तं वा स्वदते ॥ सू० १०५ ॥ -- चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'विभूसावडियाए, विभूषाप्रत्ययेन - विभूषानिमित्तेन सुकुमालतादिसंपादना बुद्धचेत्यर्थः, 'अप्पणो पाए' आत्मनः स्वस्य पादौ चरणौ 'आमज्जेज्ज वा' आमार्जयेद्वा - तत्रामार्जनं धूल्यादीनाम् पृथक्करणम्, तत् कुर्याद्वा तथा - 'पमज्जेज्ज वा' प्रमार्जयेद्वा प्रतिदिनमनेकवारं चरणयोः प्रमार्जनं कुर्यात् कारयेद्वा । तथा - 'आमज्जंतं वा' आमार्जयन्तं वा - एकवारमामार्जनं कुर्वन्तं कारयन्तं वा 'पमज्जतं वा ' प्रमार्जयन्तं वा-प्रतिदिनमनेकवारं प्रमार्जनं कुर्वन्तं कारयन्तं वा श्रमणान्तरम् ' साइज्जइ' स्वदतेअनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० १०५ ॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy