SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० १३ सू० १-८ सस्निग्धादिपृथिव्यादिषु स्थानादिकरणनिषेधः ३०७ मक्कडासंताणगंसि ठाणं वा सेज्ज वाणिसेज्जं वा णिसीहियं वा चेएइ चेएतं वा साइज्जइ ।। सू० ८॥ छाया-यो भिक्षुः कोलावासे वा दारके जीवप्रतिष्ठिते साण्डे सप्राणे सबीजे सहरिते समोसे सोदके सोत्तिंगपनकोदकमृत्तिकामर्फटसंतानके स्थानं वा शम्यां वा निषधां वा नैपेधिकी वा चेतयते चेतयमानं वा स्वदते ।। सू० ८॥ चूर्णी--'जे भिक्खू' इत्यादि । जे भिक्खू' यः कचित् भिक्षुः श्रमणः श्रमणी वा 'कोलावासंसि वा कोलावासे, तत्र कोलाः घुणा तेषाम् मावासे निवासस्थाने एतादृशे 'दारुए' दारुके काप्ठे यत्र काष्ठविशेके घुणाः सन्ति तादृशकाष्ठविशेषोपरि आसनादिकं कुरुते इत्यप्रिमेण सम्बन्धः, तथा 'जीवपइहिए' जीवप्रतिष्ठिते दारुके काष्ठे-यत्र काष्ठविशेपे द्वीन्द्रियादयो जीवासन्ति तादृशजीवप्रतिष्ठितकाष्ठे 'सअंडे' साण्डे दारुके, तत्र अण्डानि गृहगोधिकादीनाम् तथा च यत्र काष्ठे गृहगोधिकादीनामण्डानि सन्ति तादृशदारुके तथा 'सपाणे' सप्राणे दारुके, तत्र प्राणः प्राणवान् जीवः द्वीन्द्वियत्रीन्द्रियादिः पीपिलिकादिः तादृशप्राणयुक्ते काष्ठे तादृशप्राणयुक्तपृथिव्याम् वा तथा 'सबीए' सबीजे दारुके पृथिव्यां वा, तत्र बीजं शाल्यादीनाम् 'सहरिए' सहरिते-अरितबीजसहिते दारुके पृथिव्यां वा तथा च हरितकायविशिष्टे दारुके पृथिव्यां वा 'सओस्से' समोसे 'ओस' इति देशी शब्दो निशाजळवाचकः, तस्मिन्, शीतकाले रात्रौ सूक्ष्मजलविन्दवो निपतन्ति पृक्षादौ संस्थितजलविन्दूनाम् 'मोस' इति नाम भवति, तथा च तादृशओसविशिष्टे दारुके पृथिव्यां बा 'सउदगे' सौदके दारुके जलसंमिश्रितदारुके पृदिव्यां वा 'सउत्तिंगपणगदगमट्टियमक्कड़ासंताणगंसि' सोत्तिंगपनकोदकमृत्तिकामर्कटसन्तानके, तत्र उत्तिंगः-भूमौ वर्तुलविवरकारिणः गर्दभमुखाकृतिकाः कीटविशेषाः, तत्समूहः कीटिकानगररूपः, तस्मिन् तत्सहिते वा स्थाने तथा पनकः पञ्चवर्णः साड्कुरोऽनङ्कुरो वा पञ्चवर्णानन्तकायविशेषः, उदकमत्तिका उदकेन सहिता मृत्तिका सकर्दमा सचित्ता मिश्रा वा मृत्तिका, यद्वा दकं जलं मृत्तिका सचित्तमृत्तिका तत्र, मर्कटसन्तानकं लूनाजालम् , एतेषु वस्तुषु यः श्रमणः श्रमणी वा 'ठाणं वा' स्थानं वा, ता स्थानमूलस्थानम् 'सेज्जं वा' शय्यां वा 'णिसेज्जं वा' निषद्यां वा 'णिसीहियं वा' नैपेधिकी वा 'चेएई' चेतयते करोति तथा 'चेएंत वा साइज्जइ' चेतयमानं वा कोलावासादिषु स्थानादिकं कुर्वन्तं श्रमणानन्तरं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति । अत्राह भाष्यकार:भाष्यम्-पुढवीमाइठाणं तु, जत्तियमेत्तमुदाहियं । तत्थ ठाणाइयं कुज्जा, आणाभंगाइ पावई ॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy