SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ ॥ द्वादशो देशकः ॥ व्याख्यात एकादशोद्देशकः, साम्प्रतमवसरप्राप्तो द्वादशोद्देशकः व्याख्यायते, तत्र - एकादशोद्देशकस्यान्तिम सूत्रेण सह द्वादशोदेशकस्यादिसूत्रस्य कः सम्बन्ध इति चेदत्राह भाष्यकार: भाष्यम् – मरणपसंसा नो चे, कप्पड़ भिक्खुस्स तं कई काउं । बद्धस्स होज्ज मरणं, कत्थइ तस्स य निसेोऽत्थ ॥१॥ छाया - मरणप्रशंसा नो चेत् कल्पते भिक्षोः तत् कथं कर्तुम् । बद्धस्य भवेन्मरणं, कथ्यते तस्य च निषेधोऽत्र ॥१॥ अवचूरि : - गिरिपतनादिकं बालमरणं प्राणातिपात इति कृत्वा यदि तस्य प्रशंसनं न कल्पते तदा तत् मरणं कत्तु कथं कल्पते ! तत्तु सुत्तरां नैव कल्पते, तच्च मरणं बद्धस्य भवेत् इत्यतोऽत्र द्वादशोदेशके तस्य बन्धस्य निषेधः कथ्यते, एष एव एकादशोदेशकेन सहास्य द्वादशोद्देशकस्य सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य द्वादशोदेशकस्येदमादिसूत्रम् — 'जे भिक्खू कोल्लुणवडियाए' इत्यादि । सूत्रम् — जे भिक्खू कोलुणवडियाए अण्णयरं तसपाणजाई तण - पासएण वा मुंजपासएण वा कट्टपासएण वा चम्मपासएण वा वेत्तपासएण वा सुत्तपासएण वा रज्जुपासएण वा बंधइ बंधतं वा साइज्जइ ॥ सू० १ ॥ छाया- -यो भिक्षु कारुण्यप्रतिज्ञया अन्यतरां त्रसप्राणजातिं तृणपाशकेन वा मुजपाशकेन वा काष्ठपाशकेन वा चर्मपाशकेन वा वेत्रपाशकेन वा सूत्रपाशकेन वा रज्जुपाशकेन वा बध्नाति बध्नन्तं वा स्वदते ॥सू० १|| 1 चूर्णी — 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'कोलुणवडियाए' कारुण्यप्रतिज्ञया - करुणाबुद्धया, तत्र करुणाया भावः कारुण्यं तस्य प्रतिज्ञेति वाञ्छा कारुण्यप्रतिज्ञा, तया शय्यातरकरुणाबुद्धया यदि बुभुक्षितो वत्सः स्वेच्छया दुग्धं पास्यति तदा दोहनसमये गृहस्थस्याल्पं दुग्धं मिलिष्यति ततो गृहस्थस्याधिकं दुग्धं भवतु इति गृहस्थस्य प्रसन्न - तार्थ, तथा यदि गृहस्थः प्रसन्नो भविष्यति तदा मह्यं अन्यस्मै वा साधवे प्रभूतमशनादि वसत्या - दिकं च दास्यतीति गृहस्थानुग्रहार्थ 'अण्णयरं तसपाणजाई' अन्यतरां त्रसप्राणजाति गोमहिष्यनाप्रमृतिरूपां 'तणपासएण ' तृणपाशकेन वा तत्र तृणो दर्भादिः तस्य पाशको बन्धनम्, तेन तृणबन्धनेन बध्नातीत्यग्रेण सम्बन्धः । ' मुंजपासएण वा' सुञ्जपाशकेन वा, तत्र मुञ्जो नाम तृणविशेषः तस्य पाशकेन बन्धनेनेत्यर्थः, 'कट्टपासएण वा' काष्ठपाशकेन वा काष्ठबन्धनेनेत्यर्थः 'चम्मपासएण वा' चर्मपाशकेन वा मृगादिचर्मबन्धनेन 'वेतपासएण वा' क्षेत्रपाशकेन वा, तत्र वेत्रो
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy