SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्र छाया-यो भिक्षुर्मासादिकं वा मत्स्यादिकं वा मांसखलं वा मत्स्यस्खलं वा आहेणं वा प्रहेणं वा संमेलं वा हिंगोलं वा अन्यतरद् वा तथाप्रकारं विरूपरूपं हियमाणं प्रेक्ष्य तया आशया तया पिपासया तां रजनीमन्यत्र उपातिक्रामति उपातिक्रामन्तं वा स्वदते ॥सू० ८०॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'मसाइयं वा' मांसादिकं वा यस्मिन् भोजने आदौ मांसं ददाति पश्चात् ओदनादिकं ददाति तत् मांसादिकं कथ्यते 'मच्छाइयं वा' मत्स्यादिकं वा यस्मिन् भोजने आदौ मत्स्यं ददाति अन्ते ओदनादिकं तत् मत्स्यादिक भोजनम् 'मंसखलं वा' मांसखलं वा यत्र स्थाने मांसः शोभ्यते तत् मांसखलम् ‘मच्छखलं वा' मत्स्यखलं वा यत्र स्थाने मत्स्या शोष्यन्ते तत् मत्स्यखलं वा 'आहेणं वा पहेणं वा' आहेण वा प्रहेणं वा भोजनगृहात् यद् आनीयते तत् आहेणम् , भोजनगृहात् यद् अन्यत्र नीयते तत् प्रहेणम् , यद्वा वधूगृहात् वरगृहे यत् नीयते तत् आहेणं, यत् वरगृहात् वधूगृहे नीयते तत् प्रहेणम् 'संमेलं वा' विवाहादौ यत् भक्कादिकं निर्मीयते तत् संमेलम् 'हिंगोलं वा' यत् मृतभक्तं तत् हिंगोलम् 'अण्णयरं वा तहप्पगारं' अन्यतरद् वा तथाप्रकारम् , तत्रान्यतरत् कथितातिरिक्त तथाप्रकारं कथितसदृशम् 'विरूवरूवं' विरूपरूपमनेकप्रकारकम् 'हीरमाणं' ह्रियमाणम् गृहात् उद्यानादिषु भोजनार्थम् नीयमानम् , अथवा एकस्माद् ग्रामा प्रोमान्तरं प्रति नीयमानं मांसादियुक्तभोजनम् 'पेहाए' प्रेक्ष्य-दृष्ट्वा 'ताए आसाए' तन्मांसादिकं लप्स्य इति तल्लाभेच्छया 'ताए पिवासाए' तया पिपासया तस्य मांसादियुक्ताहारस्य पिपसिया तृष्णया अभिलाषयेत्यर्थः ओदनादीनामशितुमिच्छा आशा, द्राक्षापानकादीनां पातुमिच्छा पिपासा, तया आशया पिपासया वा 'तं रयणि अण्णत्थ उवाइणावेई तां रजनीम् अन्यत्र तद्ग्रहणेच्छाया शय्यातर वसतितोऽन्यवसतो गत्वा रात्रिम् उपातिक्रामति उल्लङ्घयति 'उवाइणावेत वा साइज्जइ' उपातिक्रामन्तं वा उल्लङ्घयन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति । ननु-'एवं खलु चउहि ठाणेहि जीवा णेयरित्ताए कम्पं पकरेंति णेरइयत्ताए कर्म पकरेता णेरइएसु उवजंति, 'तं जहा'-महारंभयाए महापरिग्गहाए पंचिंदियवहेणं कुणिमाहारेण" इत्यादिना यद्यपि मांसभक्षणं मद्यपानं च सूत्रेषु सर्वथैव निषिद्धं तत् कथमत्रैवं प्रतिपाद्यते ? इति चेदाह-कश्चित् मांसभक्षककुलोत्पन्नों दीक्षितो जात इति तस्य कदाचिदेवप्रकारिकाऽमिलाषा · जातिस्वभावात् संभवेत् इति संभाव्य तस्य शास्त्रे निषेधः कृतः ॥ सू० ८०॥ सूत्रम्-जे भिक्खू निवेयणपिंडं मुंजइ भुजतं वा साइज्जइ ॥८१॥ छाया-यो भिक्षुनिवेदनपिण्डं भुङ्क्ते भुञ्जानं वा स्वदते ॥स. ८१॥ .
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy