SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावरिः उ.११ २.०-८-११ धर्माधर्मयोरवर्णवर्णवादनिषेधः २६३ कारणादेते दोषाः तस्मात् कारणात् श्रमणः श्रमणी वा अर्द्धयोजनात् परतो गत्वा पात्रादीनां याचनं न कुर्यात् न वा याचनं कारयेत् न वा याचमानं श्रमणमनुमोदेत ॥सू० ७|| सूत्रम्---जे भिक्खू परं अद्धजोयणमेराओ सपायपहंसि पायं अभिहडं आहटु दिज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ॥ छाया--यो भिक्षु. परमर्द्धयोजनमर्यादातः सापायपथि पात्रमभिहतमाहृत्य दीयमान प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते ॥सू० ८॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू यः कश्चिद् भिक्षुः श्रमणः श्रमणो वा 'परमद्धजोयणमेराओ' परमर्द्धयोजनमर्यादातः 'सपायपहंसि' सापायपथि सविघ्ने मार्गे सति सापाये मार्गे विद्यमाने सति इत्यर्थः तत्रापायो विघ्नः तेन सहितो मार्गः चौरश्वापदसजलमहानदी वनस्पतिरूपोऽपायस्तेन सहितः तस्मिन् तादृशे मार्गे सति कश्चित् श्रावकः 'पायं पात्र यत् 'अभिहडं आहटु दिज्जमाणं' अभिहतमाहृत्य साधुवसतो आनीय दीयमानं तत् 'पडिग्गाहेई' प्रतिगृह्णाति, यदि मार्गः सापायो भवेत् तत्र गत्वा साधुः पात्रादिकमानेतुं न शक्नोति तदवस्थायां यदि कोऽपि श्रावकः अामान्तरात् अर्द्धयोजनादधिकक्षेत्रत आनीय साधोरभिमुखं कश्चित् पात्रादिकं साघवे ददाति तं तादृशं पात्रादिकं साधुः प्रतिगृह्णाति तथा 'पडिग्गाहेंतं वा साइज्जई' प्रतिगृह्णन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति इति । अत्र संयमात्मविराधनाऽवश्यम्भाविनी, यथा-साध्वय संमुखमानीय पात्रादिग्रहणेऽप्कायहरितकायादिसंमर्दजन्या संयमविराधना, सापायमार्गेणागच्छन् दाता श्वापदादिना घातितो मारितो वा भवेत् तेन तस्य स्वजनादिः साधु ताडयेदित्यादिनाऽऽत्मविराधना भवेदतो नैतादृशं पात्रादिकं साधुर्गृह्णीयादिति भावः ॥सू० ८॥ सूत्रम्--जे भिक्खू धम्मस्स अवन्नं वयइ वयंतं वा साइज्जइ ॥ छाया–यो भिक्षुधर्मस्थावणं वदति वदन्तं वा स्वदते ॥सू० ९॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'धम्मस्स' धर्मस्य श्रुतचारित्रलक्षणस्य 'अवणं' अवर्णम् अवर्णवादम् , तत्र वर्णः प्रशंसनं स्तुतिरित्यर्थः न वर्णोऽवर्णः निन्दनं तम् 'चयई' वदति प्रकाशयति लोकानां पुरतः धर्मस्य निन्दा करोति तथा 'पदंत वा साइज्जई' वदन्तं वा स्वदते अनुमोदते, यो हि श्रमणः श्रमणी वा श्रुतचारित्रलक्षणधर्मस्यावर्णवादं वदति वदन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति । अत्राह भाष्यकार:~भाष्यम्-धम्मो य दुविहो वुत्तो, सुयचारित्तलक्षणो । तस्सावण्णो दुहा होइ, तं वए दोसभा भवे ॥१॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy