SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २२८ निशीथसूत्रे ओदनाद्यन्नं षड्जीवनिकायोपमर्दनपूर्वकं निष्पादितम्, दाता च विचिन्तयति-दमोदनाद्यन्नं कस्मैचित् साधवे देयं, तेन दानेन महान् पुण्योदयो भवेत् इति विचिन्त्य तेनाशनादिना साधु निमन्त्र यति, साधुव तादृशमोदनाधाहारं गृह्णाति तदा गृहतः साधोराज्ञाभङ्गादिदोषा अतिक्रमादयो दोषाश्च ददतश्च दातुः सदोपाहारदानप्रभवा दोषाश्च समापतन्ति । दातारः श्रावका विविधा भवन्ति नालबद्धकाः, मध्यस्थाः, भद्रकाथ, तत्र कोपि भद्रक आधाकर्मकमन्नं सम्पाद्य उपाश्रये समागत्य साधवे कथयति--मद्गृहे आगत्याहारं गृहाण, तद्ग्रहणाय साधुः सज्जीभूतो भवतीति अतिक्रमः, श्रावकेण सह गच्छतीति व्यतिक्रमः, श्रावकगृहात् पात्रे गृहीत्वा चाहारमानीय मुग्ने प्रक्षिपति चर्वति इत्यतिचारः, तदनु गलबिलादधोऽवतारयति तदा तस्याना चारो भवति, एवं दातृविषयेऽपि आधाकर्माहारादिसंपादनेऽतिक्रमः, निमन्त्रणे व्यतिक्रभः, साधोर्गृहानयनेऽतिचारः, दाने चानाचार इति । तत् आधाकर्मकं त्रिप्रकारकं भवति- आहारे उपकरणे वसतौ च, आधाकर्मकाहारश्च चतुर्विधो भवति -अशनपानखाद्यस्वाद्यभेदात् उपधिर्द्विविधः वस्त्रपात्रभेदात्, तत्र वस्त्रे आधा कर्मकं पञ्चप्रकारकं भवति जाङ्गमिकभाङ्गिकादिमेदात्, तत्र जामिकं - जङ्गमप्राणिरोमनिष्पन्नं ऊर्णामयं वस्त्रम् १, भाङ्गिकम् अतस्यादिसूत्रनिष्पादितवस्त्रम् २, शाणकं शणनिष्पादितवस्त्रम् ३, पोतकं - कार्पासिकवस्त्रम् ४, तिरीडपट्टकम् - अर्कतूलादिनिष्पादितवस्त्रम् ५ । तस्मिन् तादृशे पञ्चविधे वस्त्रे आधाकर्मकम् । पात्रे चाघाकर्मकं त्रिविधम्- अलाबुकदारुकमृत्तिकापात्रभेदात् । वसत्याधाकर्मकं द्विविध मूलगुणे आधाकर्म, उत्तरगुणे आधाकर्म च तत्र श्रमणार्थे गृहादिनिर्माण मूलगुणे आधाकर्म । निर्मितस्यैव गृहादेः छादनोपलेपनादिकमुत्तरगुणे आधाकर्म इति । * अत्र - - आधा कर्मग्रहणाद् मप्रस्था औद्देशिकादयः सर्वेऽपि उद्गमदोषाः संग्राह्याः, तत्परिभोगे साधुः प्रायश्चित्तभागी भवति । अत्रोदाहरणं यथा पूर्वस्मिन् काले एकः समन्तभद्राचार्यः शिष्यपरिवारपरिवृतो विहरति स्म । स ग्रामानुग्रामं विहरन् कस्मिंश्चिन्नगरे चातुर्मास्यं कर्त्तुकामो मार्गस्थिते एकस्मिन् लघुग्रांमे गन्तुं प्रस्थितः, तत्रतस्तन्नगरमतिदूरं वत्र्त्तते । तन्नगर श्रावकाः, आचार्योऽत्रागमनार्थं प्रस्थित इति ज्ञात्वा चिन्तयन्तियद- आचार्यश्चातुर्मासावधि काले अत्रागन्तुमसमर्थों नात्रागमिष्यातीति कृत्वा ते श्रावका आचार्यागमनात् पूर्वमेव मध्यमार्गस्थिते तस्मिन् लघुग्रामे समागत्य निवासं कृतवन्तः । ग्रामानुग्रामपरिपाट्या विहरन् स आचार्यस्तस्मिन् लघुप्रामे संप्राप्तः । तत्रतो विहर्तु - कामाय तस्मै ते सर्वे निवेदितवन्तः - भो आचार्याः ! यस्मिन्नगरे भवन्तो गन्तुकामास्तन्न गरमतिदूरं वरीवर्त्ति चातुर्मासागमने चाऽल्पीयांस एव दिवसा इति भवद्भिश्चैव चातुर्मास्यं कर्त्तव्यम् । इति तेषां प्रार्थनां स्वीकृत्याचार्यश् चातुर्मासार्थं तत्रैव स्थितः । पूर्णे चातुर्मासेऽन्यत्र विद्वतवान् । ततो जनपदविहारं विहरन् द्वादशवर्षानन्तरं पुनस्तत्रैव लघुग्रामे संप्राप्तः पश्यति तं ग्रामं समृद्धजनरहितं
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy