SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरि, उ० ९ सू० २८-२९ सचिवसन्देशकादिपरार्थनिस्सारिताशनादेनि० २१९ रोहाण वा हत्थिरोहाण वा' अश्वारोहकेभ्यो वा-अश्वानामारोहणकारकेभ्यः, हत्यारोहकेभ्यो वा हस्तिनामारोहणकारकेभ्यः० इति । एतेषां पूर्वोक्तानामश्वदमकादीनां निमित्तं बहिर्निस्सारित संपादितं वा अशनादि साधुर्न गृह्णीयात् , न ग्राहयेत् , गृह्णन्तं वा नानुमोदयेत् । एवं करणे साधुः प्रायश्चितभागी भवति, आज्ञाभङ्गानवस्थादिदोषांश्च प्राप्नोतीति ॥सू० २७॥ . सूत्रम्-जे भिक्खू रणो खत्तियाणं सुदियाणं मुद्धाभिसित्तर्ण असणं वा पाणं वा खाइमं वा साइमं वा परस्स नीहडं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ । तंजहा-सस्थाहावाण वा संवाहावयाण वा अब्भगावयाण वा उव्वद्यावयाण पा मज्जावयाण वा मंडावयाण छत्तग्गहाण वा चामरग्गहाण वा हडप्पग्गहाण वा परियदृग्गहाण वा दीवियग्गहाण वा असिग्गहाण वा धणुग्गहाण वा सत्तिग्गहाण वा कोतग्गहाण वा हत्थिपत्तग्गहाण वा ।।सू० २८॥ छाया-यो भिक्षु राज्ञः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानामशनं वा पानं वा खाद्यं वा स्वाद्य वा परस्मै निहतं प्रतिगृहाति प्रतिगृह्यन्तं वा स्वदते । तद्यथासावकेभ्यो वा संवाहकेभ्यो वा अभ्यञ्जकेभ्यो वा उद्वर्तकेभ्यो वा मज्जकेभ्यो वा मंडकेभ्यो वा छत्रग्रहेभ्यो वा चामरग्रहेभ्यो पा हडप्पग्रहेभ्यो वा परिवर्तनहेभ्यो वा दीपिकामहेभ्यो वा असिग्रहेभ्यो वा धनुर्घहेभ्यो वा शक्तिग्रहेभ्यो वा कुन्तग्रहेभ्यो वा हस्तिपत्रग्रहेभ्यो वा ॥ सू० २८ ।। चूर्णी-'जे भिक्खू' इत्यादि व्याख्या पूर्ववत् , केभ्यः परेभ्यः ! तान् प्रदर्शयति-'तं जहा' इत्यादि । 'तंजडा' तयथा-सत्थाहावाण वा' सार्थाहकेभ्यो वा राज्ञां सार्थानि सचिवादिरूपाणि आह्वयन्ति आमन्त्रयन्ति राजसंदेश वा कथयन्ति ये ते तथा, तानुद्दिश्य सम्पादितं स्थापितम् तथा 'संवाहावयाण वा' संवाहकेभ्यो वा, तत्र शयनकाले रानादीनां संवाहनं शरीरादेर्वा संवाहनं 'पगचंपी' इति प्रसिद्ध कुर्वन्ति ये ते, तेभ्यः 'अभंगावयाण वा' अभ्यञ्जकेभ्यो वा शतपाकसहस्रपाकादितैलेन राजादीनामभ्यञ्जनं 'मालिश' इति प्रसिद्धं कुर्वन्ति ये ते अभ्यलकाः तैलाभ्यङ्गकारकाः, तेभ्यः 'उव्वट्टावयाण वा' उद्वर्तकेभ्यो वा, तत्र राजादीनां शरीरे सुगन्धिद्रव्यमिश्रितपिष्टचूर्णादिना उर्तयन्ति 'उवटना' इति प्रसिद्धं कुर्वन्ति ये ते उद्धर्तकाः, तेभ्यः 'मज्जावयाण वा' मज्जकेभ्यो वा, तत्र ये राजादीनां स्नानं कारयन्ति ते मन्जकाः तेभ्यः, 'मंडावयाण वा' मंडकेभ्यो, वा तत्र मुकटादिना राजादीन् मण्डयन्ति-मण्डितं कुर्वन्ति अलड्कुर्वन्ति ये ते मण्डकाः, तेभ्यः 'छत्तग्गहाणवा' छत्रग्रहेभ्यो वा, तत्र ये राजादीनां छत्रं गृह्णन्ति धारयन्ति ये ते छत्रग्रहाः, तेभ्यः 'चामरग्गहाण
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy