SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ चूर्णि भाष्यावचूरिः उ०९ सू०११-१२ राजादिसमासमये तत्रत्याहारग्रहणनिधः २११ भवन्ति तत्र स्थितास्ते अशनादिकं चतुर्विधमाहारजातं पाचयन्ति तादृशाशनादि तेभ्यो यो भिक्षुगृह्णाति 'पडिग्गातं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १० ॥ सूत्रम् — जे भिक्खू रण्णा खत्तियाणं मुदियाणं मुद्धाभिसित्ताणंअण्णयरं उववूहणियं समीहियं पेहाए तीसे परिसाए अणुडियाए अभिण्णाए अवाच्छिण्णाए जा तं असणं वा ४ पडिग्गाsपग्गा वा साइज्जइ ॥ सू० ११ ॥ छाया -यो भिक्षुः राम्र. क्षत्रियाणां मुदितानां सूर्द्धाभिषिक्तानामन्यतरद् उपबृंहणीयं समीहितं प्रेक्ष्य तस्यां परिषदि अनुत्थितायां अभिन्नायां अभ्यवच्छिन्नायां यः तद्सनं वा ४ प्रतिगृहाति प्रतिगृहन्तं वा स्वदते ॥ सू० ११|| चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः 'रण्णो' इत्यादि' राजादीनां 'अण्णय रं' यत् अम्यतरत् अशनादिषु मध्ये यत् किमप्येकमशनादिकम् 'उबवूहणियं' उपबृंहणीयम् शरीरपुष्टिकारकम् मेधेन्द्रियायुष्यादिबल्बर्द्धकं च, एवाशे सति पुनः 'समीहियं' समीहितम् मनोऽभिलषितम् 'पेहाए' प्रेक्ष्य दृष्ट्वा 'तीसे परिसाए' तस्यां यस्यां परिषदि सर्वक्षत्रियादिकाः संस्थिता तस्यां च परिषदि 'अणुट्टियाए' अनुत्थितायां यावत्पर्यन्तं सभा नोत्थिता तस्यां 'अभिण्णाए' अभिन्नायां यावत्पर्यन्तम् एकोऽपि जनस्ततो निर्गतो न भवति सा अभिन्ना तस्यां 'अन्वोच्छिण्णाएं' अव्यवच्छिन्नायां यदा सर्वे विनिर्गता भवन्ति तदा सा व्यवच्छिन्ना, न व्यच्छिन्ना अव्यवच्छिन्ना तस्यां 'जो तं असणं वा ४ पडिग्गाहेइ' यः तद् उपबृंहणीयादिगुणयुक्तमशनप्रानखाद्यस्वाद्यं प्रतिगृह्णाति स्वीकरोति 'पडिग्गाहें तं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वते तादृशमशनादिकं यो गृह्णाति गृहन्तमनुभोदते स प्रायश्चितभागी भवति । अत्राह भाष्यकारः भाष्यम् - मेहाइदिय आऊभाईणं जं विवद्धढगं होई । उववृहणीयमसणं, रायसहाओ य नो गिरहे ॥ छाया - मेघेन्द्रियायुरादीनां यत् विवर्धकं भवति । उपबृंहणीयमशन राजसभातश्च नी गृहीयात् ॥ अवचूरि:- 'मेहा' इत्यादि । तत्र मेधा धारणावती बुद्धिः, कालान्तरे अविस्मरणं धारणा तस्याः, इन्द्रियाणि श्रोत्रादीनि तेषाम्, आयुश्च जीवनस्थितिरूपं तस्य, उपलक्षणाद् देहस्य च विबर्द्धकं भवति तत् उपबृंहणीयमशनं चतुर्विधं भक्तादिकम् अशनं पानं स्वाद्य स्वाद्यं साधुः राजसभातः,
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy