SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ १०८ निशीथसूत्रे कुत्रचित् स्तुपमुद्दिस्यापि लोका उत्सवं कुर्वन्ति तादृशस्तूपमहोत्सवेषु वा 'चेइयमहेनु वा' चैत्यमहोत्सवेषु वा चैत्यानि नाम मृतकदाहस्थाने क्रियमाणाश्चिह्नविशेषाः ३मशानादिपु निर्मिता भवन्ति, तेषां महोसवेषु 'रुक्खमहेसु वा वृक्षमहेषु वा कुत्रचित् वृक्षविशेष वटपिप्पलादिकमुद्दिश्य उत्सवाः क्रियन्ते तेपु 'गिरिमहेसु वा गिरिमहेषु वा, तत्र गिरयः पर्वताः, तानुद्दिश्य क्रियमाणा महोत्सवाः पर्वतादिकमुदिश्यापि यत्र महोत्सवाः क्रियन्ते तत्र 'दरिमहेसु वा' दरीमहेपुवा, तत्र दरी-गिरिकन्दरा, तदुद्देशेन क्रियमाणा महोत्सवा दरीमहाः तेषु वा 'अगडमहेसु वा' अगडमहेषु वा, यत्र कूपसमीपे पशूनां जल पानार्थ गर्तादिकं करोति तादृशगर्नविशेपा अगडाः, तेषां महोत्सवे' 'तडागमहेषु वा' तडागमहेषु वा, तत्र तडागः सामान्यजलाशयः, तदुद्देशेन क्रियमाणा उत्सवाः तडागमहाः, तेषु वा 'दहमहेसु वा' हृदमहेसु वा, तत्र हुदो नाम अगाधजलाशयः, तदुद्देशेन क्रियमाणा उत्सवा हृदमहाः, तेषु वा, 'गईमहेसु वा' नदीमहेषु वा-नदीविशेषमुदिश्य क्रियमाणेषु महोत्सवेषु 'सरमहेसु वा' सरोमहेषु वा, तत्र सरः तडागविशेषः तदुद्देशेन क्रियमाणा महोत्सवाः सरोमहाः, ते. वा 'सागरमहेसु वा' सागरमहेषु वा-समुद्रमुद्दिश्यक्रियमाणमहोत्सवेषु वा 'आगरमहेस वा' आकरमहेषु वा, तत्राकरः सुवर्णादीनामुद्गमस्थानं, तदुद्देशेन क्रियमाणा उत्सवा आकरमहाः, तेषु आकरमहेषु वा 'अण्णयरेस वा तहप्पगारेसु विख्वरूवेसु महामहेसु' अन्यतरेषु वा तथाप्रकारेषु पूर्वोक्तमहोत्सवसदृशेषु विरूपरूपे' नानाप्रकारकेपु महामहेषु अन्यजातीयकेष्वपि जन्मपरिणयनादिमहामहोत्सवेषु जायमानेषु तत्र 'असणं वा ४' अशनादिकं चतुर्विधमाहारम् उपलक्षणात् वस्त्रपात्रादिकं वा 'पडिग्गाहेइ' प्रतिगृह्णाति 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदतेऽनुमोदते । यो हि भिक्षुरुपर्युक्तेषु महोत्सवेषु गन्वा राज्ञो मू‘भिषिक्तादीनां वा अशनादिकं स्वयं गृह्णाति अन्यद्वारा ग्राहयति वा गृह्णन्तं वा अनुमोदते । एतानि महारम्भस्थानानि, अत्र षट्कायोपमर्दनं भवति, एषु स्थानेषु राजादीनां भिक्षाग्रहणे साधोः रसलोलुपता सिध्यति, पट्कायोपमदैनजन्या दोषा अपि समापधेरन् , तस्मात् कारणादत्रतो यदि यः साधुरशनादिकं गृह्णाति सोऽवश्य प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गानवस्थादिका दोषा अपि समापद्यन्ते इति भावः ॥१५॥ सूत्रम्-जे भिक्खू रणो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं उत्तरसालंसिवा उत्तरगिहंसि वारीयमाणाणं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥ सू० १६॥ छाया-यो भिक्षुः राशः क्षत्रियाणां मुदितानां मूर्धाभिषिकानां उत्तरशालायां वा उत्तरगृहेषु वा रीयमाणानाम् अशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतिगृह्णाति प्रतिगृहन्तं वा स्वदते ॥२०१६॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy