SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ०७ सू०७७-७९ मातृग्रामप्रकरणम् १८१ स्वदते । यो भिक्षुर्मातृप्रामस्य मैथुनसेवनेच्छया आगन्त्रागारादिषु स्वयमुपविशति स्त्रियं वा उपवेशयति तथा स्वयं शेते स्त्रियं वा शाययति च तमनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषाश्चापि भवन्तीति ॥ सू० ७६ ॥ सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए आगंतागारेसु वा आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा निसीयावेत्ता वा तुयट्टावेत्ता वा असणंवा पाणं वा खाइमं वा साइमं अणुग्घासेज्ज वा अणुपाएज्ज वा अणुग्घासंतं वा अणुपाएंतं वा साइज्जइ॥ सू० ७७ ॥ __ छाया-यो भिक्षुर्मातृप्रामस्य मैथुनप्रतिक्षया आगन्त्रागारेषु वा आरामागारेषु वा गाथापतिकुलेपु वा परिव्राजकावसथेषु वा निषध वा त्वग्वर्तयित्वा वा अशनं वा पानं वा खाद्यं वा स्वाध वा अनुग्रासयेत् वा अनुपाययेत् वा अनुग्रासयन्त वा अनुपाययन्तं वा स्वदते ॥ सू० ७७ ॥ चूर्थी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू यः कश्चिद् भिक्षुः श्रमणः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छया 'आगंतागारेसु वा' आगन्त्रागारेषु वा यत्रागन्तुका गमनागमनसमये विश्राम्यंति तादृशं गृहमागन्तुकागारः धर्मशालेतिलोकप्रविद्धः, तेषु 'आरामागारेसु वा' आरामागारेषु वा क्रीडार्थमागतपुरुषविश्रामार्थोपवनस्थितगृहेषु 'गाहावइकुलेसु वा' गाथापतिकुलेषु वा गृहस्थगृहेषु 'परियावसहेसु वा' परिव्राजकावसथेषु वा तापसानामाश्रमेषु, भिक्षुरेतादृशस्थानेषु स्त्रियम् 'णिसीयावेत्ता' निषध-उपवेश्य 'तुयट्टावेत्ता वा'' त्वग्वर्तयित्वा वा 'असणं वा' अशनं वा 'पानं वा' पानं वा 'खाइमं वा' वाद्य वा 'साइमं वा' स्वाचं वा 'अणुग्घासेज्ज वा' अनुग्रासयेद्वा-अनु-पश्चात् स्वग्रासग्रहणानन्तरं स्त्रियं ग्रासयेत् तन्मुखे प्रासं दद्यात् 'अणुपाएज्ज वा' अनुपाययेद्वा स्वयं जलादिकं पीत्वा तदन्तरं स्त्रियं पाययेत् 'अणुग्घासंतं वा' अनुप्रासयन्तं वा स्वग्रासानन्तरं ग्रासं ददतं वा 'अणुपाएतं वा' अनुपाययन्तं वा स्वपानानन्तरं पाययन्तं वा 'साइज्जइ' स्वदतेऽनुमोदते । यो भिक्षुरागन्त्रादिगृहेषु मैथुननेच्छया स्त्रियमुपवेध शाययित्वा वा स्वयमशनादिकं भुक्त्वा पानीयं वा पीत्वा भोजयन्तं वा पाययन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषाश्चापि भवन्तीति ॥सू० ७७॥ सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अंकसि वा पलियंकंसि वा निसीयावेज्ज वा तुयट्टावेज्ज वा निसीयावेतं वा तुयट्टावेंतं वा साइज्जइ ॥ सू० ७८||
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy