SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे ૭૪ च । द्रव्यलोलुपैश्चारैः कदाचिद् गृहीतो भवति, मालादि दृष्ट्वा असाधुरयमितिकृत्वा कोट्टपालादिभिः गृहीतो राजदण्डभाग् भवति, कस्मैचिद वितरणे कस्मैचिद् अदाने च कदाचित् अधिकरणमपि स्यात्, तथा लोके निन्दापि स्यात्, लोका एवं वदिष्यन्ति - यत् अहो आश्चर्यमेतत् यत् जैनसाधवो निवृत्तभावसम्पन्ना अपि मालां कुर्वन्ति धारयन्ति च । केचन एवं वदिष्यन्ति यत्-एते आत्मानं निवृत्तरागद्वेपं मन्यमाना अपि मालां कुर्वन्ति धारयन्ति चेत्यादिरूपेण क्रमपरम्परया शासनस्य लोकेऽवहेलना स्यात् अतस्तृणमालादीनां करणं धारणं तदनुमोदनं च न कर्तव्यमिति भावः | ३ || सूत्रम् -- जे भिक्खू माउग्गामस्त मेहुणवडियाए तणमालियं वा मुंजमालियं वा वेत्तमालियं वा मयणमालियं वा पिंछमालियं वा दंतमालियं वा सिंगमालियं संखमालियं वा हड्डमालियं वा कट्टमालियं वा पत्तमालियं वा पुप्फमालियं वा फलमालियं वा वीयमालियं वा हरियमालियं वा परि भुंजइ परिभुजंत वा साइज्जइ ॥ सू० ४ ॥ छाया -यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया तृणमालिकां वा मुञ्जमालिकां वा वेत्रमालिकां वा मदनमालिकां वा पिच्छमालिकां वा दन्तमालिकां वा शृङ्गमालिकां वा शङ्खमालिकां वा अस्थिमालिकां वा काष्ठमालिकां वा पत्रमालिकां वा पुष्पमालिकां वा फलमालिकां वा वीजमालिकां हरितमालिकां वा परिभुक्ते परिभुञ्जानं वा स्वदते ॥ सू० ४ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । तृणादिमालिकानां परिभोगं करोति- नानाप्रकारेण तासां स्वकार्यनिमित्तं परिभोगं करोतीति भावः ॥ सू० ४ ॥ सूत्रम् — जे भिक्खू माउग्गामस्स मेहुणवडियाए अयलोहाणि वा तंबलोहाणि वा तउलोहाणि वा सीसगलोहाणि वा रुप्पलोहाणि वा सुवण्णलोहाणि वा करेइ करेंतं वा साइज्जइ || सू० ५|| छाया - यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिचया अयोलोहान् वा ताम्रलोहान् घा पुलोद्दान् वा सीसकलोहान् घा रूप्यलोहान् वा सुवर्णलोद्दान् वा करोति कुर्वन्तं वा स्वदते || सू० ५|| चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'माउग्गामस्स' मातूग्रामस्य ‘मेहुणवडियाए' मैथुनप्रतिज्ञया 'अयलोहाणि वा' अयोलोहान् वा 'लोहाणी' - यत्र लोह - शब्दो देशीयः, तदर्थस्तु आकारविशेषस्तान्, तथा च अयसो लोहस्य आकारविशेषान् वा तथा 'तंबलोहाणि वा' ताम्रलोहान् वा ताम्रस्य धातुविशेपस्य आकारविशेपान् 'तउयलोहाणि वा '
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy