SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १४८ . . - निशीथसचे · · चूर्णी-'जे भिक्खू विचित्ताई' इत्यादि । 'जे भिक्खू यः कश्चिद् भिक्षुः विचित्ताई विचित्रान् नानावणोपेतान् 'दारुदंडाणि' दारुदण्डान् 'वेणुदंडाणि वा वंशदण्डान् 'वेत्तदैडाणि वा' वेत्रदण्डान् वा 'करेइ' करोति 'करेंतं वा साइज्जइ' कुर्वन्तं वा स्वदतेऽनुमोदते । यः श्रमणः नानावर्णोपेतान् दारुदण्डादिकान् स्वयं करोति कुर्वन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्तीति ।सू० ३२ ॥ एवं 'धरेई' ।सू० ३३। 'परिध्रुजई' व्याख्यानं पूर्ववत् ।।सू.०३४॥ सूत्रम्--जे भिक्खू नवणिवेसंसि गामंसि वा जाव संनिवेसंसि वा अणुप्पविसित्ता असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेइ पडि. ग्गाहेंतं साइज्जइ ॥ सू० ३५॥ ___ छाया यो भिक्षुर्नवनिवेशे ग्रामे वा यावत् संनिवेशे वा अनुप्रविश्याशन वा पानं वा-खाद्य, वा स्वाय, वा प्रतिगृह्णाति प्रतिगृह्णतं वा स्वदते ॥सू० ३५॥... . . चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'नवणिवेसंसि वा' नवनिवेशे वा-नवतया निवेशः स्थापनं यस्य स नवनिवेश:-तस्मिन् प्रथमतया - निवासिते, तादृशे 'गामंसि वा' ग्रामे वा 'जाव संनिवेसंसिवा' यावत् सनिवेशे वा अत्रयावत्-पदेन नगरखेटकवटादीनां संग्रहो भवति, एतेषु नवनिवेशितेषु प्रामादिषु अणुप्पविसित्ताअनुप्रविश्य प्रवेशं कृत्वा, यो हि भिक्षुर्नवनिर्मितप्रामादिषु मध्ये प्रवेशं 'कृत्वेत्यर्थः 'असणं वा' अशनमाहारादिनातं वा 'पाणं वा' पानं तण्डुलधावनादिकमचित्तजलम् 'खाइमं 'वा' 'खाद्यद्राक्षाखण्डादिकम् 'साइमं वा' स्वार्य लवङ्गादिकम् 'पडिग्गाहेई' प्रतिगृह्णाति-ग्रहणं करोति 'पडिग्गाहेत वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदते । यो हि'श्रमणो नवनिर्मितीमादावनुप्रविश्याहा. देब्रहणं करोति तमनुमोदते स प्रायश्चित्तभांगी भवति; तथा तस्याज्ञाभङ्गादिका दोषाश्चापि भवन्ति तस्मात् कारणात् श्रमणो नवनिर्मितप्रामादिषु प्रविश्य न चतुर्विधाहारादिकं गृह्णीयात् नवा गृह्णन्तमनुमोदयेदिति । - अयं भावः-नवनिर्मितग्रामादौ प्रविशन्तं 'श्रमणं दृष्ट्वा भद्रका अनिवसितुकामा अपि एवं विचारयन्ति-अहो भाग्यवशात् साधुः समागतो महन्मङ्गलं जातम् , 'स्थिरीभूतं च । एवं जानन्ति बदन्ति च- अहो साधुदर्शन धन्यम् , साधुनाऽत्रं प्रथममेव 'भिक्षाग्रहणं कृतम्, तिन कारणेन ग्रामोपि स्थिरो भविष्यति, वयमपि चात्र सुस्थिरा. सन्तो वसिष्यामः, इति कृत्वा ते तत्रागत्य -निवसन्ति -- तेनारम्भप्रवृत्तिः । ततस्ते भद्रकाः तेषां साधूनामन्येषां वा. निमित्तमुद्गमादिदोषदुष्टमाहारादिकं कुर्युः । यश्च अभद्रकः स पुनर्नवनिर्मितग्रामादौ आवासं कर्तुकामोपि प्रथमतः साधू दृष्ट्वा .
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy