SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ - निशीथसूत्रे - ॥१९॥ ततः प्रातिहारिकस्य दण्डकादिकस्य प्रातःकाले प्रत्यर्पणार्थ कथयित्वा दिवसावसाने एव प्रत्यर्पयतीति तद्विषयकं सूत्रम् ॥२०॥ एवम्-सागारिकसत्कस्य दण्डकादिकस्य तस्मिन्नेव दिवसावसाने प्रत्यर्पयिष्यामीति कथयित्वा प्रातः प्रत्यर्पयतीति तद्विषयं सूत्रम् ॥२१॥ एवं सागारिकसत्कस्य दण्डकादेः प्रातः प्रत्यर्पयिष्यामीति कथयित्वा तस्मिन्नेव दिवसावसाने प्रत्यर्पयतीति तद्विषयकं सूत्रम् ॥२२॥ एतत्सूत्रचतुष्टयमपि साधोर्वचने मृषावाददोषवत्त्वेन 'निषेधविषयकमस्ति । शेष पञ्चदशसूत्रवद् व्याख्येयम् ॥सू०२२॥ अत्राह भाष्यकार:भाष्यम्-पाडिहारियसागारि,-संतिए जे गमा भवे । - : . पायपुंछणगे दंडाइए वेत्थ तहेव य ॥ छाया-प्रातिहारिकसागारि,-सत्के ये गमा भवेयुः । पादप्रोग्छनके दण्डादिके चात्र तथैव च ।। अवचूरि:-'पाडिहारिय' इत्यादि । प्रातिहारिक प्रातिहारिकपादपोञ्छनकविषयकपश्चदशषोडशसूत्रयोर्यो गमद्वयप्रकारः कथितः स एव हि गमद्यप्रकारः सागारिकपादप्रोञ्छनविषयकसप्तदशाष्टादशसूत्रयोरपि ज्ञातव्यः । तथा पादपोंछनकविषयके पञ्चदशादिसूत्रचतुष्टये यदत् येन प्रकारेण रजोहरणस्य प्रतिपादितो द्वितीयोद्देशकप्रकारेण स एव प्रकारः प्रातिहारिकसागारिकसत्कदण्डादिष्वपि सूत्रचतुष्टयी प्रयोकव्या । एतत्सर्व द्वितीयोद्देशके प्रथमसूत्रादारभ्याप्टमसूत्रपर्यन्तं यथा वर्णितम् तथैवात्रापि पञ्चमोद्देशके वर्णयितव्यम् । श्रावकात् याचित्वा आनीतस्य पादप्रोञ्छनकस्य दण्डादेर्वा यथासमयमप्रदाने प्रायश्चित्तं भवति, तथा आज्ञाभङ्गादिका दोषा अपि भवन्तीति ।।सू०२२॥ सूत्रम्-जे भिक्खू पाडिहारियं वा सेज्जासंथारगं पच्चप्पिणित्ता दोच्चपि अणणुन्नविय अहिठेइ अहिट्ठेतं वा साइज्जइ सू० २३॥ छाया-यो भिक्षुः प्रातिहारिकं पा शय्यासंस्तारकं प्रत्यर्पयित्वा द्वितीयमपि अननुशाप्याधितिष्ठति अधितिष्ठतं वा स्वदते ॥सू० २३॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'पाडिहारियं वा' प्रातिहारिकं वा 'सेज्जासंथारगं' शय्यासंस्तारकं श्रावकादानीतं श्रवकाय 'पञ्चप्पिणित्ता' प्रत्यर्पयित्वा प्रत्यर्पणार्थ तु गतवान् किन्तु तत्स्वामिनोऽनुपस्थित्यादिकारणवशात् अनर्पयित्वा तदादायैव समागतः, तत् शय्यासंस्तारकं तत्रैव तिष्ठति, तादृशं शय्यासंस्तारकं पुनः 'दोच्चं पि अणणुन्नविय' द्वितीयं-द्वितीयमपि वारम् अननुज्ञाप्य तस्याज्ञामगृहीत्वैव यदि कारणवशात् 'अहिठेइ' अधितिष्ठति तदुपरि समुपविशति तस्याननुज्ञापितस्य शय्यासंस्तारकस्योपभोगं
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy