SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ॥पञ्चमोद्देशकः॥ चतुर्थोदेशक व्याख्याय सम्प्रति पञ्चमोद्देशको व्याख्यायते, तत्र चतुर्थोद्देशकीयान्तिमन्त्रेण सह पञ्चमोद्देश कादिसूत्रस्य कः सम्बन्धः ? इत्यत्राह भाष्यकारःभाष्यम्-परिहारतवडिओ उ, काउस्सग करेज कहिं नो वा । चोत्थरस पंचमस्स य, संबंधो एस अक्खाओ ॥१॥ छाया-परिहारतपःस्थितस्तु, कायोत्सर्ग कुर्यात् कुत्र नो वा। चतुर्थस्य पञ्चमस्य च, सम्बन्ध एप आख्यातः ॥१॥ अवचूरिः-'परिहारतवढिओउ' इत्यादि । परिहारतपःस्थितः पूर्वं चतुर्थो देशकस्यान्तिमसूत्रे यत् परिहारतपः प्रोक्तं तद् वहमानः साधुः कायोत्सर्ग तथा शय्यानिषद्यादिकं वा करोति, तं कायोत्सर्गादिकं साधुः कुत्र स्थित्वा कुर्यात् ? कुत्र वा नो कुर्यात् ? इति तदत्र पञ्चमोद्देशके प्रदर्शयिप्यते, इति चतुर्थस्य पञ्चमस्य च उद्देशकस्य एप सम्बन्ध आख्यातः ॥१॥ तदनेन सम्बन्धेनायातस्यास्य पञ्चमोद्देशकस्येदं प्रथम सूत्र प्रस्तूयते–'जे भिक्खू' इत्यादि । सूत्रम्-जे भिक्खू सचित्तरुक्खमूलंसि ठिच्चा ठाणं वा सेज्जं वा निसीहियं वा तुयट्टणं वा चेएइ चेएतं वा साइज्जइ ॥सू० १॥ छाया-यो भिक्षुः सचित्तवृक्षमूले स्थित्वा स्थान वा शय्यां वा नैपेधिकी वा. त्वरवर्तनं वा चेतयति चेतयन्तं वा स्वदते ॥सू० १॥ ___ ची-'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः 'सचिचरुक्खमूलसि' सचित्तवृक्षमुलेसचित्तवृक्षस्याधः 'ठिच्चा' स्थित्वा-सचित्तवृक्षस्य यदि हस्तिपदप्रमाणः स्कन्धः स्यात् तादृशस्य वृक्षस्य सर्वतः समन्तात् रलिप्रमाणं यावद् भूमिः सचित्ता भवति, एतदनुसारेण यस्य वृक्षस्य यावपरिमितः स्कन्धः स्यात् तत्तत्प्रमाणेन तदप्रेतना भूमिः सचित्ता भवतीति स्वयमूहनीयम् । अतो वृक्षस्य हस्तिसुण्डामात्रे दूरे एव स्थातव्यमिति नियमानादरणेन तत्रोपविश्य 'ठाणं वा' स्थानं वा तत्र स्थानं नाम कायोत्सर्गः, स्थीयते स्थिरीभूयते यत्र तत् स्थानं कायोत्सर्गः तत् 'सेज्ज वा शय्यां वा शरीरप्रमाणां करोति तथा 'निसीहियं चा' नैपेधिकी वा-पापक्रियानिषेधकत्वात नैषेधिकी स्वाध्यायभूमिः स्वाध्यायस्थानं, तां वा 'चेएई' चेतयति करोति, तथा यदि कोपि साधुः स्वयं सचित्तवृक्षमूले कायोत्सर्ग करोति शय्यां वा करोति नैषेधिकी स्वाध्यायभूमि निर्धारयतीत्यर्थः । तथा 'चेएतं वा साइज्जइ' चेतयन्तं कुर्वन्तं वा स्वदते । यो भिक्षुः मचित्तवृक्षमूले कायोत्सर्गादिकं करोति तमनुमोदते वा यः साधुः स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका अपि दोषा भवन्ति तस्मात्तथा न कर्तव्यमिति ।। सू०१॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy