SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ११२ निशीथसूत्र मूत्रम्--जे भिक्खू सपायंसि वा परपायंसि वा दिया वा राओ वा वियाले वा उव्वाहिज्जमाणे सपायं गहाय, परपायं वा जाइत्ता उच्चारपासवणं परिद्ववेत्ता अणुग्गए सूरिए एडइ एडतं वा साइज्जइ ।। सू० ८२॥ छाया-यो भिक्षुः स्वपात्रे वा परपात्रे वा दिवा वा रात्री वा विकाले वा उद्वाध्यमानः स्वपात्रं गृहीत्वा परपात्रं वा याचित्वा उच्चारप्रस्रवण परिष्ठाप्य अनुद्गते सूर्ये पडति पडन्तं वा स्वदते ॥ सू० ८२॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू यो भिक्षुः 'सपायंसि वा' स्वपात्रे वा स्वनिश्रितोन्दके वा पात्रे इत्यर्थः 'परपायसि वा' परपात्रे वा-परकीयोन्दके वा 'दिया वा' दिवा वा-दिवसे इत्यर्थः. 'राओ वा' रात्रौ वा 'चियाले वा विकाले वा, विकाले-संन्ध्यासमये वा 'उच्चाहिज्जमाणे' उहाध्यमानः उच्चारप्रस्रवणवेगेन बाध्यमानः उच्चारप्रस्रवणबाधामनुभवन् 'सपायं गहाय' स्वपात्रं गृहीत्वा, स्वकीयं पात्रं गृहीत्वा 'परपायं वा जाइत्ता' परपात्र वा याचित्वा तस्मिन् 'उच्चारपासवर्ण' उच्चारप्रस्रवणम्, 'परिहवेत्ता' परिठाप्य कृत्वेत्यर्थः 'अणुग्गए सूरिए' अनुद्गते सूर्ये सूर्योदयात्प्रागेव 'एडई' एडति-परिष्ठापयति अप्रतिलिखितभूमौ व्युत्सृजति , 'एडतं वा साइज्जई' एडन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥सू० ८२॥ सूत्रम्-तं सेवमाणे आवज्जइ मासियं परिहारहाणं उग्घाइयं ॥३॥ तइओ उद्देसो समत्तो ||३|| छाया-तत्सेवमान आपद्यते मासिकं परिहारस्थानमुद्घातिकम् ॥ सू० ८३॥ ॥ इति तृतीयोदेशः समाप्तः ॥ चूर्णी-'त सेवमाणे इत्यादि । तं सेवमाणे, तत्सेवमानः, तृतीयोदेशके आदित आरभ्य समाप्तिपर्यंतं यद्यत् प्रायश्चित्तकारणं वर्णितं तदेकमपि यत्किश्चित्सेवमानः श्रमणः श्रमणी वा 'उग्याइयं' उद्घातिकम्, 'मासियं परिहारहाणं' मासिकं परिहारस्थानम् , लघुमासिक प्रायश्चित्तम् 'आवज्जई' आपद्यते प्राप्नोति ॥सू० ८३॥ इति श्री-विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचक-पञ्चदशभापाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनशास्त्राचार्य"-पदभूपित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालबति-विरचितायां "निशीथसूत्रस्य" चूर्णिभाष्यावचूरिरूपायां व्याख्यायां तृतीय उद्देशकः समाप्तः ॥३॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy