SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २६४ जीवाभिगमसूत्रे माणा २ जेणेव अभिलेयतमा जेणेव विजए देवे तेणेव उवागच्छंति उवागच्छित्ता करतलारिणहीतं सिरसावत्तं मत्थए अंजलिं कट्टु जएणं विजएगं बद्धाति विजयस्स देवस्स तं महत्थं महग्धं महरिहं विपुलं अभिसेयं उवटुवैति ॥सू० ६५॥ छाया-'तस्मिन् काले तस्मिन्-समये विजयो देवो विजयाया राजधान्या उपपातसभायां देवशयनीये देवदृष्यान्तरितेऽङ्गुलस्याऽसंख्येयभागमात्रयाऽवगाहनया विजयदेवतया सम्पन्नः ततः खलु स विजयदेवोऽधुनोपपन्नमात्रएव सन् पञ्चविधया पर्याप्त्या पर्याप्तिभावं गच्छति तद्यथा-आहारपर्याप्त्या १ शरीरपर्याप्त्या २ इन्द्रियपर्याप्त्या ३ आनत-प्राणतपर्याप्त्या ४ भापामनः पर्याप्त्या ५ ततः खलु विजयस्य देवस्य पञ्चविधया पर्याप्त्या पर्याप्तिभावं गतस्याऽयमेतद्रूप आध्यात्मिकश्चिन्तितः प्रार्थितो मनोगतः सङ्कल्पः समुदपद्यत किं में पूर्व श्रेयः किं मे पश्चाश्रेयः किं मे पूर्व करणीयं किं मे पश्चात्करणीयम् किं मे पूर्व वा, पश्चाद्वा हिताय-सुखाय-क्षेमाय-निःश्रेयसायाऽनुगामिकतायै भविष्यतीति कृत्वाएवं संप्रेक्षते ॥ ततः खलु विजयस्य देवरय सामानिकपर्पदुपपन्नकाश्च देवा विजयस्य देवस्य इममेतद्रूपमाध्यात्मिकं चिन्तितं-प्रार्थित-मनोगत-संकल्पं समुत्पन्न ज्ञात्वा यत्रैव स विजयो देव स्तौवोपगच्छन्ति तत्रैवोपगत्य विजयं देवं करतलपरिगृहीतं शिरसावर्त मस्तकेऽञ्जलिङ्कृत्वा जयेन-विजयेन वर्धापयन्ति । जयेनविजयेन वर्धापयित्वा-एवमवादिपुः एवं खलु देवानुप्रियाणां विजयाया राजधान्याः सिद्धायतनेऽप्टशतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणां संनिक्षिप्तं तिष्ठति । सभायाश्च मुधर्मायाः माणवके चैत्यस्तम्भे वज्रमयेपु गोलवृत्तसमुद्गषु वहनि जिनसक्थीनि संनिक्षिप्तानि तिष्ठन्ति यानि खलु-देवानुप्रियाणामन्येषां च वहूनां विजयाराजधानी वास्तव्यानां देवानां-देवीनां चाऽर्चनीयानि वन्दनीयानि पूजनीयानि सत्कारणीयानि सम्माननीयानि कल्याणं-मङ्गलं-दैवतं चैत्यं पर्युपासनीयानि एतत्खलु देवानुप्रियाणां पूर्वमपिश्रेयः एतत्खल देवाऽनुप्रियाणां पश्चादपि श्रेयः एतत्खलु देवानुप्रियणां पूर्व करणीयं पश्चात् करणीयम् एतत्खलु देवानुप्रियाणां पूर्ववा-पश्चाद्वा यावद् आनुगामिकतायै भविष्यतीति कृत्वा महता महता-जयशब्दं प्रयुञ्जन्ति । ततः खलु स विजयोदेव स्तेपी सामानिकानां पर्पद उपपन्नकानां देवानामन्तिके-एवमर्थ श्रुत्वा निशम्य हृष्टतुष्टो यावत्-हृदयो देवशयनीयादभ्युत्तिष्ठते, अभ्युत्थाय दिव्यं देवदृष्ययुगलं परिधत्ते परिधाय .. देवशयनीयात्-प्रत्यवरोहति प्रत्यवरुह्योपपातसभाया पूर्वेण द्वारेण निर्गच्छति । ., नित्य येनैव [यत्रैव] हूदस्तत्रैवोपागच्छति उपागत्य इद मनुप्रदक्षिणं कुर्वन्
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy