SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका टीका प्र. ३ उ ३ खु.६० विजयायाः चतुदिक्षु वनषण्डादिकनि० १६५ वेदिकायाः अयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा वन्नमया नेमा रिष्टमयाःप्रतिष्ठानाः वैडूर्यमयाः स्तम्भाः सुवर्णरूप्यमयाः फलकाः वज्रमयाः, सन्धयः-लोहिताक्षमय्यः सूच्या, नानामणिमयानि कलेवराणि, कलेवरसंघाताः नानामणिमयानि रूपाणि, नानामणिमयाः रूपसंघाटाः, अङ्कमयाः पक्षाः, पक्षवाहाः ज्योतीरसमयाः वंशाः, वंशकवेलुकाश्च रजतमया:, पट्टिकाः जातरूपमय्यः अवधान्यः वनमय्यः उपरि पुंछन्यः सर्वश्वेतं रजतमयं, तत् खलु आच्छादनम् । सा खलु पदमवरवेदिका एकैकेन-हेमजालेन, एकैकेन गवाक्षजालेन, एकैकेन किङ्किणी. जालेन यावन्मणिनालेन, कनकजालेन रत्नजालेन, एकैकेन पद्मवरजालेन सर्वरत्नमयेन सर्वतः समन्तात् सम्परिक्षिप्ता । तानि खलु जालानि तपनीयलम्बूसकाणि सुवर्णप्रतरकमण्डितानि नानामणिरत्नानि विविधहारार्द्धहारोपशोभित समुदायानि ईपदन्योन्यमसम्प्राप्तानि पूर्वापरदक्षिणोत्तरागतैतिमन्दं मन्दम् एज. मानानि कम्पमानानि लम्वमानानि शब्दायमानानि, तेनोदारेण मनोज्ञेन कर्णमनोनिवृतिकरेण शब्देन सर्वतः समन्तात् आपूर्यमाणानि श्रियाऽतीवोपशोभमानानि उपतिष्ठन्ति । तस्याः खलु पद्मवरवेदिकायाः तत्र तत्र देशे तत्र तत्र वहवो हयसंघाटाः, गजसङ्घाटाः, किन्नरसंघाटाः, किम्पुरुषसंघाटाः, महोरगसंघाटाः, गन्धर्वसंघाटाः, वृषभसंघाटाः, सर्व रत्नमयाः अच्छाः श्लक्ष्णाः लोहा घृष्टाः मृष्टाः नीरजस्काः निर्मलाः निष्पङ्काः निष्कण्टकच्छायकाः समरीचिकाः सोदद्योताः प्रासादीयाः दर्शनीयाः अभिरूपाः प्रतिरूपाः । तस्याः खलु पद्मवरवेदिकाया स्तत्र तत्र देशे तत्र तत्र बहवो हयपक्तयः तथैव यावत् तिरूपाः। एवं-हयवीथयो यावत्प्रतिरूपाः । एवम् हयमिथुनकानि यावत्प्रतिरूपाणि तस्याः खल्लु पद्मवरवेदिकायाः तत्र तत्र देशे तत्र बढ्यः पद्मलता नागलताः, एवमशोक. चंपकचूतवनवासन्तिकाऽतिमुक्तककुन्दश्यामलताः नित्यं कुसुमिताः यावत् सुविभक्त पिण्डमञ्जरीवतंसकधये सर्वरत्नमय्यः श्लक्ष्णाः लण्हा: घृष्टाः मृष्टा: नीरजस्काः नीमलाः निष्पङ्काः निष्कण्टकच्छायाः सप्रमाः समरीचिकाः सोयोताः प्रासादीयाः दर्शनीयाः अभिरूपाः प्रतिरूपाः । तस्याः खल्लु पद्मवरवेदिकाया स्तत्र तत्र देशे तत्र तत्र वहयोऽक्षयसौवस्तिकाः प्रज्ञप्ताः सर्वरत्नमयाः अच्छाः यावत्प्रतिरूपाः तत्केनाऽर्थेन भदन्त ! एव मुच्यते पद्मवरवेदिका पद्मवरवेदिका, गौतम ! पद्मवरवेदिकायास्तत्र तत्र देशे तत्र तत्र वेदिकासु वेदिकासु वेदिकाशीर्षकफलकेषु वेदिकपुटान्तरेषु स्तम्भेषु स्तम्भवाहासु स्तम्भशीर्षेषु स्तम्भपुटान्तरेषु सूचीषु सूचीमुखेषु सूचीफलकेषु सूचीपुटान्तरेषु पक्षेष पक्षवाहासु पक्षपर्यन्तेषु बहून्युत्पलानि पद्मानि यावत् शतसहस्रपत्राणि सर्वरत्नमया अच्छानि श्लक्ष्णानि लण्हानि घृष्टानि नीरजस्कानि निर्मलानि निप्प
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy