SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १३ उ० २ सू०१ देवविशेपनिरूपणम् ___५२१ संख्येयविस्तृता अपि, असंख्येयविस्तृता अपि, चतुष्पष्टयां खलु भदन्त ! असुरकुमारावासगतसहरस्रेषु संख्येयविस्तृनेपु असुरकुमारावासेपु एकसमयेन कियन्तः अमुरकुमारा उपपद्यन्ते ? यावत् क्रियन्तस्तेजोलेश्या उपपद्यन्ते ? कियन्तः कृष्णपाक्षिका उपपद्यन्ते ? एवं यथा रत्नपभायां तथैव पृच्छा, तथैव व्याकरणम् नवरं द्वाभ्यां वेदाभ्याम् उपपद्यन्ते, नपुंसकवेदकाः न उपपद्यन्ते शेषं तदेव उद्वर्तका अपि तथैव, नवरम् असंझिन उद्वर्तन्ते, अवधिज्ञानिनः, अवधिदर्शनिनश्च न उद्वर्तन्ते, शेपं तदेव, प्रज्ञप्तकेषु तथैव, नवरं संख्येयकाः स्त्रीवेदकाः प्रज्ञप्ताः, एवं पुरुषवेदका अपि, नपुंसकवेदकाः न सन्ति, क्रोधकपायिणः स्यात् सन्ति, स्यात् न सन्ति, ये सन्ति जघन्येन एको बा, द्वौ वा, त्रयो वा' उत्कृष्टेन संख्येयाः प्रज्ञताः, एवं मानकषायिणः, मायाऊपायिणः, संख्येयाः लोभकपायिणः प्रज्ञप्ताः, शेपं तदेव, त्रिष्वपि गमकेषु संख्येयेषु चतस्रो लेश्या भणिनव्या एवम् असंख्येयविस्तृनेष्वपि, नवरम् त्रिष्वपि गमकेपु असंख्येया भणितव्याः, यावत् असंख्येयाः, अचरमाः मज्ञप्ताः, कियन्ति खलु भदन्त ! नागकुमारावासशतसहस्त्राणि प्रज्ञप्तानि ? एवं यावत्-स्वनितकुमाराः, नवरं यत्र यावन्ति भवनानि, कियन्ति खलु भदन्त ! वानव्यन्तरावासशतसहस्राणि प्रज्ञप्तानि ? गौतम ! असंख्येयानि वानव्यन्तरावासशतसहस्राणि प्रज्ञप्तानि, ते खलु भदन्त ! किं संख्येयविस्तृताः, असंख्येयविस्तृताः ? गौतम । संख्येयविस्तृताः, नो असंख्येयविस्तृताः, संख्येयेषु खलु भदन्त ! वानव्यन्तरावास शतसहस्रेषु एकसमयेन कियन्ता, वानव्यन्तरा उपपद्यन्ते ? एवं यथा अमुरकुमाराणां संख्येयविस्तृतेषु त्रीणि गमकानि तथैव भणितव्यानि वानव्यन्तराणामपि त्रीणि गमकानि, कियन्ति खलु भदन्त ! ज्योतिपिकविमानावासशतसहस्राणि प्रज्ञप्तानि ? गौतम ! असंख्येयानि ज्योतिपिकविमानावासशतसहस्राणि पक्षप्तानि ? ते खलु भदन्त ! किं संख्येयविस्तृताः असंख्येयविस्तृताः? एवं यथा वानव्यन्तराणां तथा ज्योतिपिकाणामपि त्रीणि गमकानि भणितव्यानि, नवरम् एका तेजोलेश्या, उपपद्यन्तेषु प्रज्ञप्तेषु च असंज्ञिनो न सन्ति, शेपं तदेव, सौधर्मे खलु भदन्त ! कल्पे कियन्ति विमानाचामशतसहस्राणि प्रज्ञप्तानि ? गौतम ! द्वात्रिंशत् विमानावासशतसहस्राणि प्रज्ञप्तानि, ते खलु भदन्त ! किं संख्येयविस्तृताः, असंख्येयविस्तृताः ? गौतम ! संख्येयविस्तृता अपि असंख्येयविस्तृता अपि, सौधर्मे खलु भदन्त ! कल्पे द्वात्रिंशतिविमानावासशतसहस्रेषु संख्येयविस्तृतेषु विमानेषु एकसमयेन कियन्तः सौमिका देवा उपपद्यन्ते ? कियन्तस्तेनोलेश्या उपपद्यन्ते ? एवं यथा ज्योतिपिकाणां त्रीणि गमकानि तथैव श्रोणि गमकानि भणितव्यानि, नवरं त्रिज्वपि संख्येया भणितव्याः, अवधिज्ञानिनः भ० ६६
SR No.009320
Book TitleBhagwati Sutra Part 10
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy