________________
५०
प्रशमरतिप्रकरणम्
१नित्यपरिशीलनीये त्वङ्मांसाच्छादिते कलुषपूर्णे । निश्चयविनाशधर्मिणि रूपे मदकारणं किं स्यात् ? ॥८६॥
शरीरस्य । बीजबिन्दोराधानात्प्रभृति कललार्बुदमांसपेश्याद्याकारेणोपचयं गच्छन् गर्भः शिरोग्रीवाबाहूर:स्थलोदरादिभावेन वर्धते, रसहरिण्या च जनन्यभ्यवहृताहाररसोपयोगात् सम्पूर्णाङ्गावयवो नवमे मासि दशमे वा मातुरुदरान्निर्गच्छति । ततोऽपि स्तनक्षीरपीतकाभ्यवहारात् कुमारयौवनमध्यमस्थविरावस्थाभिः शरीरं चयापचययुक्तम् । पथ्येष्टाहारपरिणतेरुपचयो वृद्धिः, अपथ्यानिष्टान्नपानोपयोगादपचयो हानि:, तौ चयापचयौ यस्य तच्चयापचयिकम् । निरुजस्य वा उपचयः, मान्द्यादिभिरपचयः । रोगा ज्वरातीसारकाशश्वासादयः । जरा पूर्वावस्थात्यागेनोत्तरावस्थावस्कन्दनं यावदत्यन्तस्थविरावस्थेति । रोगजरयोरपाश्रयि स्थानं "शरीरकमपाश्रयः । एवं शुक्रादिसम्पर्कनिष्पन्ने देहे को मदावकाश: किं गर्वबीजं रूपस्य ? इति ॥८५॥
(८६) टीका-नित्येति । नित्यमिति सर्वदा । १परिशीलनीयं संस्कर्तव्यं यस्मान्नवभिः २स्रोतोद्वारैः सदैवान्तर्गतं मलं दूषिका-३सिङ्घान-निष्ठ्यूत-लाला-रेतोमूत्रपुरीष-स्वेदाधुद्वमति शरीरकम् । तदपनयनसम्मार्जनादि प्रतिक्षणमयमाचरति अनिविण्णो रूपवान् । त्वचा चर्मणासृजाऽवता५ मांसेन च आच्छादिते स्थगिते । कलुषं मूत्रपुरीषरुधिरमेदोमज्जास्थिस्नायुप्रभृति तेन पूर्णे व्याप्ते । विनाशधर्मो यस्यास्ति तद्विनाशधर्मिणि । निश्चयेनावश्यंतयाऽभ्यङ्गोद्वर्तनस्नानानुलेपनप्रतिविशिष्टान्नपानलालितमपि विनश्यति पर्यन्ते कृम्यादिपुञ्जो वा भस्मादिराशिर्वा ६शुष्कचर्मास्थिकडेवरप्रायं वा भवति । एवंविधे च रूपे किं पुनर्भवेत् मदकारणं, येन माद्यन्ति निविवेका रूपभाजः ? ॥८६॥
पितृमातृजुगुप्सनीयशरीरावयवाभ्यां सकाशात् समुद्भवस्य-प्रादुर्भूतस्य । तथा सततम्-अनवरतं चयोपचयिकस्य-चित्यपचितिधर्मकस्य । तथा रोगजरयोः पूर्वोक्तयोरपाश्रयिणः-स्थानस्येति ॥८५।।
(८६) (वि०) नित्यपरिशीलनीये-सदा संस्कर्तव्ये त्वङ्मांसाच्छादिते-चर्मपिशितस्थगिते कलुषपूर्णे-अशुच्यादिभृते निश्चयविनाशधर्मिणि-एकान्तविनश्वरस्वरूपे रूपे-शरीराकृतिलक्षणे, एवं पूर्वोक्तविशेषणे मदकारणं-दर्पहेतुः किं स्यादिति ।।८६।।
(८६) (अव०)-सर्वदा संस्कर्तव्ये चर्मण्यसृजाऽवता' स्थगिते । कलुषं मूत्रपुरीषरुधिरमेदोमज्जास्नायुप्रभृति तेन व्याप्ते । निश्चयेन विनाशधर्मो यस्यास्ति ॥८६॥