SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिप्रकरणम् जिनभाषितार्थसद्भावभाविनो विदितलोकतत्त्वस्य । अष्टादशशीलाङ्गसहस्रधारण कृतप्रतिज्ञस्य ॥६१॥ परिणाममपूर्वमुपागतस्य शुभभावनाऽध्यवसितस्य । अन्योन्यमुत्तरोत्तरविशेषमभिपश्यतः समये ॥६२॥ (६१) टीका-जिनेति । जिनैर्भाषितोऽर्थ उत्पादव्ययध्रौव्ययुक्तो जीवादिः सप्तविधः । स गणधरैः सूत्रेण सूचितस्तस्यार्थस्य सद्भावं भावयति यः१ स यतिस्तच्छीलश्च । 'एवमेतत् तद्यथा भगवद्भिरुक्तं गणधरैर्दृष्टं तथैवायं नान्यथा'इति सद्भावभाविनः । विदितमवगतं लोकतत्त्वं येनासौ विदितलोकतत्त्वः जीवाजीवाधारक्षेत्रं लोकस्तस्य तत्त्वं परमार्थः । नास्त्यत्र वालाग्रप्रमाणोऽपि प्रदेशो यत्र त्रसत्वेन स्थावरत्वेन वा नोत्पन्नो मृतो वा यथासम्भवम् । अथवाऽधोमुखमल्लकाकृतिमध्ये स्थालाकार उपरि मल्लकसमुद्गकाकारः नारकतिर्यङ्मानुषदेवाधिवासो जन्मजरामरणोपद्रवबहुलः । अष्टादशशीलाङ्गसहस्रेषु कृतप्रतिज्ञस्य अष्टादशशीलाङ्गसहस्राण्युपरि वक्ष्यमाणानि धर्माद्भूम्यादीन्द्रियेत्यस्यां कारिकायां(२४५) । अष्टादशशीलाङ्गसहस्राणि धारयितव्यानि यावज्जीवं मयेति आरूढप्रतिज्ञस्य ॥६१॥ (६२) टीका-परिणाममिति । 'शुद्धिप्रकर्षयोगादपूर्वः परिणाम उच्यते २मनसस्तमनुप्राप्तस्य । शुभभावनाध्यवसितस्य । अध्यवसितमध्यवसायः । शुभभावनाः पञ्चानां महाव्रतानां पञ्चविंशतिर्भावनाः३ परिपठिता, अनित्यत्वादिका वक्ष्यमाणा (वा) द्वादश भावनाः तदध्यव (६१) (वि०) जिनभाषितार्थानां-जीवादिवस्तूनां सद्भावान्-परमार्थान् भावयति स तथा तस्येति। विदितलोकतत्त्वस्य-ज्ञातलोकस्वरूपस्य, लोकश्च-जीवाजीवाधारक्षेत्रम् । अष्टादशानां शीलानाम्-अवयवे समुदायोपचारात् शीलाङ्गानां-चारित्रांशानां वक्ष्यमाणानां सहस्राणि तेषां धारणंपरिपालनं तस्मिन् कृता-विहिता प्रतिज्ञा-अङ्गीकारो येन स तथा तस्येति ॥६१।। (६२) (वि० ) उपागतस्य-प्राप्तस्य । कम् ?-परिणाम-धर्माध्यवसायम् । कीदृशम् ?अपूर्वं शुद्धिप्रकर्षयोगात्, शुभभावनासु-द्वादशविधासु महाव्रतसत्कपञ्चविंशतिप्रमाणासु वाऽध्यवसितस्य कृताध्यवसितस्येति समासः। अभिपश्यतः-पर्यालोचयतो जानानस्येत्यर्थः । किम् ? (६१) (अव०)-सर्वज्ञभाषितजीवादिप दार्थपरमार्थस्वरूपभावनाशीलस्य जीवाजीवाधारभूतलोकोऽवगतस्वरूपस्य वक्ष्यमाणाष्टादश सहस्रशीलाङ्गधारणकृतप्रतिज्ञस्य ॥६१॥ (६२) (अव०)-दर्शनमोहनीयकर्मक्षयोपशमेन दर्शनशुद्धिरूपमनुप्राप्तस्य, धर्माध्यवसा' यमध्यवसायस्य, अन्योन्यं स्वदर्शनपरदर्शनापेक्षयोत्तरोत्तरविशेषं पश्यतो जिनागमे ॥६२॥
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy