________________
३४
प्रशमरतिप्रकरणम्
यस्मिन्निन्द्रियविषये शुभमशुभं वा निवेशयति भावम् । रक्तो वा द्विष्टो वा स बन्धहेतुर्भवति तस्य ॥५४॥ स्नेहाभ्यक्तशरीरस्य रेणुना श्लिष्यते यथा गात्रम् । रागद्वेषाक्लिन्नस्य कर्मबन्धो भवत्येवम् ॥५५ ॥ एवं रागो द्वेषो मोहो मिथ्यात्वमविरतिश्चैव । एभिः प्रमादयोगानुगैः समादीयते कर्म ॥५६॥
(५४) टीका-कथं पुनः कर्मबन्धादृतेऽन्यो' गुणो नास्तीति विभावयन्नाहयस्मिन्निति । शब्दादिविषये भावं चित्तपरिणामं शुभमिष्टं रागयुक्तो निवेशयति, अशुभं वानिष्टं भावं द्वेषयुक्तः४ स्थापयति । स स भावस्तस्यात्मनो ज्ञानावरणादिकर्मणोऽष्टविधस्य बन्धहेतुर्भवति । ‘सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते स बन्ध' इति वचनात् (तत्त्वार्थ ७-२,३) ॥५४॥
( ५५ ) टीका-कथं पुनरात्मप्रदेशेषु कर्मपुद्गला लगन्तीत्याह - स्नेहाभ्यक्तेति । तैलादिना स्नेहेनाभ्यक्तवपुषो यथा रजःकणाः श्लिष्यन्ति नातिसूक्ष्मस्थूलास्तथा रागद्वेषपरिणामस्नेहार्द्रस्य ज्ञानावरणादिवर्गणायोग्याः कर्मपुद्गलाः प्रदेशेष्वात्मनो लगन्तीत्यर्थः ॥५५॥
( ५६ ) टीका–सम्प्रति रागद्वेषप्रधानान् कर्मबन्धहेतून् समस्तानेवोपसंहरन्नाह - एवमिति ।
(५४) (वि०) इदमेव भावयन्नाह - यस्मिन्निति । यस्मिन्निन्द्रियविषये-शब्दादिके, शुभं भव्यम्, अशुभम् - अभव्यम्, निवेशयति- स्थापयति, भावं - परिणामम्, रक्तो वा प्रीतः, द्विष्टो वा-अप्रीतः, स भावो बन्धहेतुर्भवति - ज्ञानावरणाद्यष्टविधकर्मबन्धनकारणं स्यात्तस्य जीवस्येति
114811
(५५) (वि० ) अथ कथं पुनरात्मप्रदेशस्य कर्मपुद्गला लगन्तीत्याह - स्नेहेति । स्नेहेन - तैलादिना अभ्यक्तं-प्रक्षितं शरीरं वपुर्यस्य जीवस्य स तथा तस्य रेणुना - धूल्या श्लिष्यते - आश्लिष्यते यथा-येन प्रकारेण गात्रं वपुरिति दृष्टान्तः, रागद्वेषक्लिन्नस्य - आर्द्रस्य कर्मबन्धो भवत्येवमिति व्यक्तमिति ॥५५॥
(५६) (वि० ) सम्प्रति रागद्वेषप्रधानान् कर्मबन्धहेतून् समस्तानेवोपसंहरन्नाह - एवमिति ।
(५४) (अव० ) - इन्द्रियव्यापारे शब्दादिप्रवर्तने भव्यमभव्यं वा करोति परिणामं, रागयुतः१ स=आत्मनो भावः, कर्मबन्धस्य तस्य निमित्तम् आत्मनो जीवस्य भवति ॥५४॥ (५६ ) ( अव० )–मोहोऽज्ञानं तत्त्वाश्रद्धानं मिथ्यात्वम्, आश्रवेभ्योऽनिवृत्तिरविरतिः,