________________
॥ प्रशमरतिप्रकरणम् ॥
नाभेयाद्याः सिद्धार्थराजसूनुचरमाश्चरमदेहाः । पञ्चनवदश च दशविधधर्मविधिविदो जयन्ति जिनाः ॥१ ॥ ॥ अज्ञातकर्तृका प्राचीनटीका ॥
(१) टीका - प्रशमस्थितेन येनेयं कृता वैराग्यपद्धतिः । तस्मै वाचकमुख्याय नमो भूतार्थदर्शिने ॥१॥
प्रशमरतिप्रकरणारम्भे मङ्गलाभिधानं विवक्षितप्रकरणार्थस्याप्रत्यूहेन परिसमाप्त्यर्थमित्याहरे—नाभेयाद्याः सिद्धार्थेत्यादि । नाभिः कुलकरः । नाभेरपत्यं नाभेयः ऋषभनामा
॥ श्रीबृहद्गच्छीयश्रीहरिभद्रसूरिविरचितविवरणम् ॥ उदयस्थितमरुणकरं दिनकरमिव केवलालोकम् । विनिहतजडतादोषं सद्वृत्तं वीरमानम्य ॥१॥
वक्ष्यामि प्रशमरतेर्विवरणमिह वृद्धवृत्तितः किञ्चित् । जडमतिरप्यकठोरं स्वस्मृत्यर्थं यथाबोधम् ॥२॥ (उपगीतिः ) यद्यपि मदीयवृतेः साफल्यं नास्ति तादृशं किमपि । सुगमत्वलघुत्वाभ्यां तथापि तत् सम्भवत्येव ॥३॥
(१) (वि० ) इहाचार्यः श्रीमानुमास्वातिपुत्रस्त्रासितकुतर्कजनितवितर्कसम्पर्कप्रपञ्चः पञ्चशतप्रकरणप्रबन्धप्रणेता वाचकमुख्यः समस्तश्वेताम्बरकुलतिलकः प्रशमरतिप्रकरणकरणे प्रवर्तमानः प्रथमत एव मङ्गलादिप्रतिपादकमिदमार्याद्वितयमुपन्यस्तवान्-नाभेयाद्या इति ।
नाभेरपत्यं नाभेयः-ऋषभनामा युगादिदेवः स आद्यो येषां तीर्थकृतां ते नाभेयाद्याः । सिद्धार्थो राजा तस्य सूनुः- तनयः स चरमः -पश्चिमो वर्धमानाभिधानो येषां ते सिद्धार्थराजसूनुचरमाः । चरमः- पर्यन्तवर्ती देहः - शरीरं येषां ते तथा । कियन्तः ? - पञ्चनवदश च कृतद्वन्द्वसमासाः,
(१) (अव . ) - ॐ नमः | १ शास्त्रस्य पीठबन्धः १ कषाय रागादि कर्म' करणार्थाः ५ ६ । अष्टौ च मदस्थानान्याचारो भावना धर्मः १० ॥१॥