SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिप्रकरणम् १७१ औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥२७६॥ कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् ॥२७७॥ स समुद्घातनिवृत्तोऽथ मनोवाक्काययोगवान् भगवान् । यतियोग्ययोगयोक्ता योगनिरोधं मुनिरुपैति ॥२७८॥ समयैविपरीतं संहरति । पञ्चमे समये मन्थानान्तराण्युपसंहरति । षष्ठे समये 'मन्थानं संहरति । सप्तमे समये कपाटम् । अष्टमे समये दण्डमुपसंहृत्य शरीरस्थ एव भवति ॥२७५॥ (२७६) टीका-अथ कस्मिन्समये को योगः समुद्घातकाले भवतीत्याहऔदारिकेत्यादि । प्रथमेऽष्टमे च समये औदारिक एव योगो भवति शरीरस्थत्वात् । कपाटोपसंहरणे सप्तमः । मन्थनसंहरणे षष्ठः । कपाटकरणे द्वितीयः । एतेषु त्रिष्वपि समयेषु कार्मणव्यतिमिश्र औदारिकयोगो भवति ॥२७६॥ । (२७७) टीका-कार्मणेत्यादि । मन्थानान्तरपूरणसमयश्चतुर्थः । मन्थानान्तरसंहरणसमयः पञ्चमः । मन्थानकरणसमयस्तृतीयः । समयत्रयेऽप्यस्मिन् कार्मणशरीरयोगः । तत्र च नियमेनैव जीवो भवत्यनाहारकः ॥२७७।। (२७८) टीका-स समुद्घातेत्यादि । स खलु केवली समीकृतचतुष्कर्मा । ततः संहरति । ततोऽष्टमे दण्डं, जीवप्रदेशानिति ॥२७५॥ __ (२७६) (वि०) औदारिकेति । औदारिकप्रयोक्ता-औदारिकशरीरव्यापारकः प्रथमाष्टमसमययोः-दण्डकरणसंहारलक्षणयोरसौ केवली इष्टः । मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेष्विति ॥२७६।। (२७७ ) (वि०) कार्मणेति । कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च, त्रिष्वपि पूर्वोक्तस्वरूपेषु । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात्, कार्मणशरीरव्यापारात्, 'तत्र अनाहारकत्वं विग्गहगइमावन्ना (विग्रहगतिमापन्नाः) इति गाथया सिद्धम् इति समुद्घातः ॥२७७॥ (अधि० २०) (२७८) (वि०) स इति । स मुनिः समद्धातनिवत्तोऽथ-अनन्तरं मनोवाकाययोगवानकरण-त्रयव्यापारवान् भगवान्-पूज्यः । यतियोग्यस्य-साधुजनार्हस्य योगस्य-व्यापारस्यानीतपीठ (२७६ ) (अव०)-औदारिकशरीरयापकः प्रथमाष्टमसमययोर्दण्डकरणसंहारलक्षणयोः कथितोऽसौ केवली ॥२७६॥ (२७८) (अव०)-स केवली करणत्रयशुद्धयोगवान् उचितं सत्यं यतियोग्यं योगं व्यापारं युङ्क्ते व्यापारयति २निरोधं करोति ॥२७८॥
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy