SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १६० प्रशमरतिप्रकरणम् अध्यवसायविशुद्धेः प्रशस्तयोगैर्विशुद्ध्यमानस्य । चारित्रशुद्धिमग्र्यामवाप्य लेश्याविशुद्धिं च ॥२५४॥ तस्यापूर्वकरणमथ घातिकर्मक्षयैकदेशोत्थम् । शुद्धिप्रवेकविभववदुपजातं जातभद्रस्य ॥२५५॥ २काञ्चनं च मुक्तं येन नाभिलषितं, यथा लोष्टः मृत्पिण्डो नाभिलष्यते एवं कनकमपि । एतदुक्तं भवति-न मृत्पिण्ड: तृष्णास्पदं तथा कनकमपि यस्य स मुक्तलोष्टकाञ्चनः । मुक्तं परित्यक्तम् । स्वाध्यायो वाचनादिपञ्चप्रकारः, ध्यानं ३धादिस्तत्परायणस्तद्व्यग्रस्तदुपयोगः । दृढं बाढं सुष्ठु। अप्रमत्तस्य सकलप्रमादपरिहारिणः ।।२५३।। (२५४) टीका-अध्यवसायेत्यादि । अध्यवसायविशुद्धिर्मन:परिणामस्य निर्मलता। तस्याश्चाध्यवसायविशुद्धेर्हेतुभूतायाः । प्रमत्तयोगैर्विशुद्धयमानस्य ये व्यापारा मनोवाक्कायविषयास्तैर्विशोधनशीलस्य ३विमुच्यमानस्येति । ततश्च चारित्रशुद्धिमय्यां प्रधानभूतामवाप्य लेश्याविशुद्धिं च तैजसीपद्मशुक्ललेश्यानामन्यतमलेश्यायाः प्रकृष्टां विशुद्धिं सम्प्राप्येति ॥२५४॥ (२५५) टीका-एताः सर्वाः पूर्वकालाः क्रियाः सम्प्रत्युत्तरक्रियानिर्देशार्थमाहतस्येत्यादि । यदेतदुक्तमेतदन्तेऽपूर्वकरणमुपजातमप्राप्तपूर्वं घातिकर्माणि ज्ञानावरणदर्शनावरणमोहान्तरायाख्यानि तेषामेकदेशक्षयः, 'कस्यचित्सर्वक्षयः, तस्मादुद्भूतमाविर्भूतम् । ऋद्धिप्रवेकाः ऋद्धिप्रकराः तेषां विभवः प्राचुर्यं ते यत्र विद्यन्ते तद् ऋद्धिप्रवेकविभववत् भद्रं तुल्यौ तृणमणी यस्य स तथा । मुक्ते लेष्टुकनके येन स तथा । ततः कर्मधारयस्तस्य । स्वाध्यायध्यानपरायणस्येति व्यक्तम् । दृढं-अत्यर्थमप्रमत्तस्य-प्रमादरहितस्येति ॥२५३॥ (२५४) (वि०) अध्यवसायेति । अध्यवसायविशुद्धः सकाशात् प्रशस्तयोगैःशुभमनोवाक्कायैर्विशुद्ध्यमानस्य-निर्मलतां गच्छतः । तथा अवाप्य-प्राप्य । काम् ?-चारित्रशुद्धिम् । कीदृशीम् ?-अग्रयाम् उत्तरोत्तरकालभाविनीम् । 'लेश्याविशुद्धिं चेति ॥२५४॥ (२५५) (वि०) तस्येति । तस्य-यतेः पूर्वोक्तानेकगुणान्वितस्य अपूर्वं-करणंप्राक्तनकर्मक्षयदक्षमुपजातं भवति । अथ-अनन्तरं । कीदृशम् ?-घातिकर्मणां चतुर्णां क्षयैकदेश:असमस्तक्षयस्तदुत्थं-तत्प्रभवम् । पुनः कीदृशम् ?-ऋद्धेः प्रवेका:-प्रकारा अवधिज्ञानादयस्त एव (२५४)(अव०)-चित्तनैर्मल्यात् प्रमाददण्डयोगै: विमुच्यमानस्य अग्र्यां प्रधानभूताम् ॥२५४॥ ( २५५)(अव०)-प्राक्तनकर्मक्षयकरणदक्षम्, अथानन्तरं घातिकर्मणां चतुर्णां क्षयैकदेशोऽसमस्तक्षयस्तदुत्थम् ।ऋद्धय-आमर्पोषध्यादयः । प्रवेका-अवधिज्ञानादिविशेषाः । विभवास्तृणाग्रादपि कनकवृष्टिकर्तृत्वादयः ते विद्यन्ते यत्र तत्तथा, जातं भद्रं कल्याणमस्य तस्य ॥२५५॥
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy