SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १३८ प्रशमरतिप्रकरणम् धर्मो गतिस्थितिमतां द्रव्याणां गत्युपग्रहविधाता । स्थित्युपकृच्चाधर्मोऽवकाशदानोपकृद् गगनम् ॥२१५॥ स्पर्शरसगन्धवर्णाः शब्दो बन्धश्च सूक्ष्मता स्थौल्यम् । संस्थानं भेदतमश्छायोद्योतातपश्चेति ॥२१६॥ (२१५) टीका-१धर्मादीनि द्रव्याणि कार्यमिति निर्दिशन्नाह-धर्मो गतीत्यादि । धर्मद्रव्यं गतिमतां द्रव्याणां स्वयमेव गतिपरिणतानां उपग्रहे वर्तते जीवपुद्गलानां, न पुनरगच्छज्जीवद्रव्यं पुद्गलद्रव्यं वा बलान्नयति धर्मः, किन्तु स्वयमेव गतिपरिणतमुपगृह्यते धर्मद्रव्येण, मत्स्यस्य गच्छतो जलद्रव्यमिवोपग्राहकम्, यथा वा व्योमद्रव्यं स्वयमेव द्रव्यस्यावगाहमानस्य कारणं भवति, न पुनरनवगाहमानं बलादवगाढं कारयति । यथा रेवा कृषीवलानां कृष्यारम्भं स्वयमेव कर्तुमुद्यतानामपेक्षाकारणं वर्षं भवति, न च तानकुर्वतः कृषीवलान् बलात् कृषि कारयति ३वर्षम् । यथा वा गजितध्वनिसमाकर्णनाद् बलाकानां गर्भाधानप्रसवौ भवतः, न च तामप्रसवती बलाकां बलाद् गजितशब्दः प्रसावयति । यथा वा पुरुषः प्रतिबोधनिमित्तं पापाद्विरमति, न चाविरमन्तं पुमांसं बलात्प्रतिबोधो विरमयतीति । एवं गतिपरिणामभाजां पुद्गलजीवानामपेक्षाकारणं धर्मद्रव्यम् । तथा स्थितिमतां द्रव्याणां स्थितेरपेक्षाकारणमधर्मद्रव्यं स्वयमेव तिष्ठतां, न चातिष्ठद् द्रव्यं बलादधर्मः स्थापयति । एवं स्थितिमतां द्रव्याणां स्थित्युपकारी भवत्यधर्मः । गगनं तु जीवपुद्गलानामवगाहमानानामवकाशदानेन व्याप्रियते ॥२१५।। टीका-पुद्गलद्रव्यं कमुपकारं विधत्त इत्याह-स्पर्शेति । स्पर्शादयः पुद्गलद्रव्य (२१५) (वि०) धर्मादिद्रव्योपकारमाह-धर्म इति । धर्मो-धर्मास्तिकायो, गतिस्थितिमतां द्रव्याणां यथासम्भवं सम्बन्धः कार्यः । तत्र गतिपरिणतानां द्रव्याणां-जीवपुद्गलानां गत्युपग्रहस्य विधाता-कर्ता धर्मास्तिकायः । स्थितिपरिणतानां तु स्थित्युपकर्ताधर्मोऽधर्मास्तिकायः । तथा अवकाशदानोपकृद्-अवगाहतां च द्रव्याणामवकाशदानमुपकरोति, किं तत् ?-गगनम्आकाशास्तिकाय इति ॥२१५।। (२१६) (वि० ) अथ पुद्गलद्रव्यस्य के उपकारा इत्याह-स्पर्शेति । कर्मेति । स्पर्शो (२१५) (अव०)-गतिनिमित्तं स्थित्युपकारी ॥२१५॥ (२१६) (अव०) सूक्ष्मता परिणामः स्कन्धानामेव तत्सद्भावेन ते इन्द्रियग्राह्याः साक्षात्,
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy