SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १२८ प्रशमरतिप्रकरणम् एवं संयोगाल्पबहुत्वाद्यैर्नेकशः स परिमृग्यः । जीवस्यैतत् सर्वं स्वतत्त्वमिह लक्षणैर्दृष्टम् ॥२०३॥ अजीवविषयमात्मेति ज्ञानदर्शनोपयोगस्वभावश्चेतनः प्रतीतः, कथं पुद्गलादिष्वात्मशब्दप्रवृत्तिरित्युच्यते-द्रव्यात्मेत्युपचार इत्यादि । उपचारो व्यवहारः शब्दनिबन्धनः । स च शब्दो निमित्तमाश्रित्य प्रवृतः, तच्च निमित्तमुभयत्र तुल्यम्, स यथैव चेतनो ३अतति तथाऽचेतनोऽपि अन्वयी पुद्गलांशोऽततीति भवत्यात्मशब्दवाच्यः । सर्वद्रव्यविषयश्चैष न्याय इति । नयविशेषेणेत्याह सामान्यग्राहिणा नयभेदेन सर्वत्रात्मशब्दप्रवृत्तिः । ४सोऽप्यात्मा द्रव्यक्षेत्रादिविवक्षयास्ति न सर्वथा । तत्र स्वरूपेणादिष्टो विवक्षित आत्मास्ति, पररूपेणादिष्टो नास्ति । यथैव स्वास्तिस्त्वादस्तीत्युच्यते, तथा परनास्तित्वान्नास्तीत्युच्यते । स्वावगाहक्षेत्रादिष्टस्तेनैव पर्यायेणास्ति, नान्येन । एवं कालात्मा वर्तमानतयादिष्टोऽस्तीति । अतीतानागततया नास्ति । औदयिकादीनामन्यतमेन भावेनादिष्टोऽस्ति, शेषभावेन नास्ति ॥२०२॥ (२०३) टीका-एवं संयोगेत्यादि । संयोगस्तावद्येन येन संयुक्तस्तेन तेन रूपेणात्मास्ति, येनासंयुक्तस्तेन नास्ति । नारको' नरकगतिसंयोगेनैव २विद्यते, न देवगतिसंयोगेनेति । अल्पत्वेन बहुत्वेन चादिष्टः स्यादस्ति स्यान्नास्ति । अल्पे३ मनुष्या, ४सङ्ख्ये यत्वेनैव तिर्यञ्चोऽनन्तसङ्ख्याः तेन पसङ्ख्यात्मना मनुष्यो नास्तीति सर्वद्रव्याणां जीवाजीवरूपत्वात्, किन्तु स्वस्वरूपवाचके आत्मध्वनौ नयविशेषेण-सामान्यग्राहिणा 'नयविशेषे भेदेन गृह्यमाणे कथञ्चिदयमपि घटत इति । यत आत्मादेशात्-स्वरूपाभिधानादात्मा भवति, भवत्यनात्मा च परादेशात्, परस्वरूपापेक्षया सदसद्रूपं वस्तु, जैनानां प्रसिद्धमिदमिति ।।२०२॥ (२०३) (वि०) साम्प्रतं निगमयन्नाह-एवमिति । एवमनेकप्रकारेण स-आत्मा परिमृग्यः-अन्वेषणीय इति सम्बन्धः । कैः कृत्वा ?-अल्पत्वं च बहुत्वं च ते, त्वप्रत्ययस्य प्रत्येकमभिसम्बन्धात्, ततः संयोगाश्चाल्पबहुत्वे च तानि, तानि आद्यानि येषां तानि तथा तैः । तत्र संयोगतस्तावत् येन येन संयुक्तस्तेन तेन रूपेणात्मा विद्यते, येन संयुक्तस्तेन विद्यते, यथा नारको नरकगतिसंयोगेनैव विद्यते, न देवादिसंयोगेनेति, अल्पत्वं बहुत्वव्यतिरेकेण न भवति, बहुत्वं अल्पत्वेन (२०३) (अव०)-संयोगो रूपं अनेकेन भेदेन निर्देशः परीक्षणीयः, स्वतत्त्वं सहजं स्वरूपं, दृष्टमुपलब्धं, लक्षणैश्चितैरनेकभेदं समस्तमात्मनः ॥२०३॥
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy