SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिप्रकरणम् एभिर्भावैः स्थानं गतिमिन्द्रियसम्पदः सुखं दुःखम् । सम्प्राप्नोतीत्यात्मा सोऽष्टविकल्पः समासेन ॥ १९८ ॥ ( १९८) टीका-एभिर्भावैः स्थानमित्यादि । एभिरौदयिकादिभिर्भावैः स्थानं 'सम्प्राप्नोतीत्यात्मा' । स्थानमिति स्थीयते यत्र संसारे तत्स्थानं सामान्येनाविशेषितं प्राप्नोति । यत उक्तम्— ३ सव्वठाणाई असासयाइं ति । ( सर्वस्थानानि अशाश्वतानि ) गतिः ४नरकादिका तां च गतिं प्राप्नोति भावैरेव । ननु च गतिस्थानयोर्नास्ति विशेषः ? उच्यते-नरकगतावेव जघन्यमध्यमोत्कृष्टानि स्थानानि बहूनि सन्तीति तत्प्रतिपादनार्थं स्थानग्रहणं पृथगिति । इन्द्रियाणि स्पर्शनादीनि । ५ एषां सम्पत्समग्रताऽविकलता (एकैक उपशमश्रेणि सिद्ध केवलिषु एवमविरुद्धाः । पञ्चदश सान्निपातिकभेदाः विंशतयोऽसम्भवाः ॥ औदयिकक्षायोपशमिकपारिणामिकैः चत्वारः गतिचतुष्के । क्षायिकयुतैश्चत्वारः तदभावे उपशमयुतैः ॥ ) अत्र यन्त्रकं पञ्चदशभेदानाम् ॥१९७॥ सान्निपातिकभावयन्त्रम् भावः १२५ भावः भावः औदयिकः मिश्रः औदयिकः मिश्रः क्षायिकः औदियकः मिश्रः औपशमिकः औदयिकः मिश्रः क्षायिकः औपशमिकः औदयिकः क्षायिकः क्षायिकः भावः गतिषु संयोगः ३ ४ भावः पारिणामिकः ४ पारिणामिकः ४ पारिणामिकः ४ पारिणामिकः १ पारिणामिका केवलिनः ३ पारिणामिक: सिद्धानाम् १५ OCOC ( १९८ ) ( वि० ) यदेभिर्लभ्यते तदाहह - एभिरिति । एभि: - पूर्वोक्तैर्भावैः करणभूतैः स्थानं-स्थितिमायुर्वा गतिं पञ्चविधामिन्द्रियसम्पदः - एकेन्द्रियादिविभूतीः सुखं-आह्लादम् असुखम्असातं सम्प्राप्नोति-लभते । इतिरिह यथासम्भवप्रदर्शनार्थः, न ह्यौपशमिकक्षायिकयोरेते प्राय: ( १९८) ( अव० )–१स्थानं = स्थितिमायुर्वा गतिः । चतुर्विधा । इन्द्रियसम्पदः= पञ्चेन्द्रियादिविभूतिः । सम्पदः - समग्रता । समासेन - सङ्क्षेपेण ॥१९८॥
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy