SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिप्रकरणम् माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे । व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुतां चैव ॥१५६॥ मिथ्यादृष्टिरविरतः प्रमादवान् यः कषायदण्डरुचिः । तस्य तथाश्रवकर्मणि यतेत तन्निग्रहे तस्मात् ॥१५७॥ गन्धोऽस्तीत्यशुचिगन्ध एव विजृम्भते इति ॥१५५॥ (१५६) टीका-संसारभावनामधिकृत्याह-माता भूत्वेत्यादि । संसारे परिभ्रमतां सत्त्वानां माता भूत्वा भूयः सैव दुहिता भवति, सैव च पुनर्भगिनी भवति, सैव च पुनः संसृतौ परिवर्तमाना जायापि भवति । तथा पुत्रो भूत्वा पिता भवति । स एव सुतः पुनर्भ्रातृत्वमायाति । स एव च पुनः सपत्नो भवतीत्येवमाजवंजवीभावप्राये संसारे सर्वसत्त्वाः पितृत्वेन मातृत्वेन रेशत्रुत्वेन चेत्यादिना सम्बन्धेन कृतसम्बन्धा बभूवुरिति ॥१५६॥ (१५७) टीका-आश्रवभावनामधिकृत्याह-मिथ्यादृष्टिरित्यादि । मिथ्यादर्शनादयः कर्मण आश्रवाः । तत्त्वार्थाश्रद्धानलक्षणो मिथ्यादृष्टिः । मिथ्यादर्शनोदयाच्च 'कर्मबन्धः । अविरतः सम्यग्दृष्टिरपि यो न विरतः कुतश्चित्प्राणातिपातदोषादसावपि कर्माश्रवेषु वर्तते । रसस्यास्वादनमत्यन्ताशुचिरिति ॥१५५।। (१५६) (वि०) संसारभावनामधिकृत्याह-मातेति । माता भूत्वा दुहिता-पुत्रिका भवति । तथा भगिनी च-सहोदरी भार्या भवति । क्व?-संसारे । तथा व्रजति-याति । सुतः-पुत्रः । कां ?-पितृतां-जनकत्वं भ्रातृतां बन्धुत्वं । पुनः शत्रुतां-वैरित्वं चैवेति ॥१५६।। (१५७ ) (वि०) आश्रवभावनामुररीकृत्याह-मिथ्यादृष्टिरिति । मिथ्यादर्शनादयः पञ्चापि पूर्वोक्ताः । यच्छब्दः पञ्चस्वपि योज्यः । ततो मिथ्यादृष्टिर्यो जीवः तथा अविरतः प्रमादवान् । रुचिशब्दोऽपि प्रत्येकं योज्यः । ततः कषायरुचिर्दण्डरुचिः । तस्य जीवस्य आश्रवकर्मणि-कर्माश्रवे सति, तथा-तेन प्रकारेण तन्निग्रहे-आश्रवनिग्रहे यतेत-यत्नं कुर्वीत, यतिरिति शेषः । (१५६) (अव०)-संसारभावनामाह-दुहिता-सुता ॥१५६॥ (१५७) (अव०)-'सम्यग्दृष्टिरपि न विरतः प्राणातिपातात् सोऽपि३ प्रमादवान् । मनोदण्डाः ४ वाग्दण्डाः ४ कायदण्डा:४ ७। तदेवं पञ्चदशप्रकारदण्डरुचिः । ततश्चायमर्थः प्रमादवान् यो जीवस्तस्य "प्रमत्तस्य । यथैते भेदा बहवस्तथाश्रवकर्माणि आश्रवस्थानानि
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy