SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ प्रशमरतिप्रकरणम् तच्चिन्त्यं तद्भाष्यं तत्कार्यं भवति सर्वथा यतिना । नात्मपरोभयबाधकमिह यत्परतश्च सर्वाद्धम् ॥१४७॥ पुरुषो राजादिप्रव्रजितः तदर्थमकल्प्यमपि कल्प्यम् । अवस्था मान्द्यादिका तत्रापि वैद्योपदेशादकल्प्यमपि कल्प्यम् । उपघातः संसक्तदोषः तच्च ३सक्तुकादि संसक्तं सदग्राह्य अकल्प्यं तदेव चान्यालाभे यत्नेन प्रत्यवेक्ष्य ग्राह्यं कल्प्यमिति । शुद्धपरिणामानिति पशुद्धपरिणामचेतसः, सर्वत्र क्रिया गृह्यते । अकल्प्यमपि कल्प्यं भवतीत्येतदेव दर्शयति पश्चार्द्धन । प्रसमीक्ष्य सम्यगालोच्य कल्पनीयं गृह्णतः । नैकान्तात् कल्पते कल्प्यमिति न खल्वेकान्तेनैव कल्प्यते जायते कल्प्यम् । अथवा नैकान्तेनैव कल्प्यते कल्प्यम् । अकल्प्यमेकान्तेनैव कल्पनीयमकल्प्यमिति यस्माद्देशकालाद्यपेक्षया कल्प्यमकल्प्यं भवति अकल्प्यमपि कल्पनीयमिति ॥१४६॥ (१४७) टीका-एवमनैकान्तिकं कल्प्याकल्प्यविधि निरूप्य योगत्रयनियमनाय सझेपत इत्याह-तच्चिन्त्यमित्यादि। मनसा तदेव चिन्त्यमालोच्यं आरौिद्रध्यानद्वयव्युदासेन, यन्नात्मनः परस्योभयस्य वा बाधकं भवति । वाचापि तदेव भाष्यं भाषणीयं, यन्नात्मादीनां बाधकं भवति । सर्वथा यतिना कायेनापि धावनवल्गनादिक्रियात्यागेन तदेव कार्यं कर्तव्यं, यन्नात्मादीनां बाधकं भवति । सर्वाद्धमिति अद्धा कालः सर्वकालमित्यर्थः । वर्तमानेऽनागते च । तत्रापि वर्तमानो व्यावहारिकः परिग्राह्यः । अनागतश्च सर्व एव । अतो मनोवाक्कायैः सम्यग्व्यापारा:४ कार्याः तथा, यथा स्वल्पोऽपि कर्मबन्धो न जायत इति ॥१४७।। शुद्धिः-चित्तनैर्मल्यं परिणामश्च-भावस्यान्यथाभवनं ते तथा तान्, क्वापि समाहारो दृश्यते ततस्तत्, प्रसमीक्ष्य-पर्यालोच्य भवति-जायते कल्प्यं-ग्राह्यं, भवति कल्प्यं शुद्धं पिण्डादि । न-नैवैकान्तात्निश्चयेन कल्पते-ग्राह्यं भवति, कल्प्यं-शुद्धं पिण्डादि, देशाद्यपेक्ष्य अकल्प्यमपि कल्प्यं भवतीति भावनेति ॥१४६।। (१४७) (वि० ) एवमनैकान्तिकं कल्प्याकल्प्यविधि निरूप्य योगत्रयनियमनायाहतच्चिन्त्यमिति। तत् चिन्त्यं-चित्तेन चिन्तनीयं तद्भाष्यं-वचनेन भणनीयं तत् कार्य-शरीरेण विधेयं भवतिजायते सर्वथा-सर्वैः प्रकारैः, केन?-यतिना-साधुना, 'न-नैव, आत्मा च परश्चोभयं च आत्मपरोभयाः तेषां बाधकं-दुःखकारकमिह-इहलोके यत् परतश्च-परलोके सर्वाद्धं-सकलकालमिति॥१४७॥ कदाचिद् ग्राह्यं शुद्धिः-चित्तनैर्मल्यं, परिणामो-भावस्यान्यथात्वं, कल्प्या३, अनैकान्तिकं कल्प्याकल्प्यम् ॥१४६॥ (१४७) (अव०)-'आत्मनः परस्योभयेषां च, बाधाकरम्, इहलोके परत्र च, सर्वाद्धं सर्वकालम् ॥१४७॥
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy