SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ७६ प्रशमरतिप्रकरणम् भोगसुखैः किमनित्यैर्भयबहुलैः काङ्क्षितैः परायत्तैः ? । नित्यमभयमात्मस्थं प्रशमसुखं तत्र यतितव्यम् ॥१२२॥ नित्यतामित्याह-क्षणविपरिणामधर्मा इत्यादि । क्षणेन विपरिणामधर्माः । विशब्दः कुत्सायाम् । कुत्सितः १परिणामो धर्मः स्वभावः प्रीतिकारिणः सन्तोऽप्रीतिकारिणः परिणतिविशेषाज्जायन्ते । स्वल्पेनैव कालेनान्यस्वभावा भवन्ति । मरणधर्माणो मास्तेषां ऋद्धिसमुदया २विभूतिसमुदया: । धनधान्यहिरण्यसुवर्णादयः सर्वे दक्षिणोत्तर-२मथुरावासिवणिग्द्वयविभूतिसमुदयवत् । अन्यथात्वं च प्रतिपन्नाः शोकहेतवो नियमेन स्युः । संयोगाः पुत्रपत्नीप्रभृतयो विप्रयोगान्ता एव भवन्ति । न खलु कश्चित् संयोगोऽस्त्यात्यन्तिक इति भावयतोऽभिलाषस्तेषु न भवतीति ॥१२१।। ___ (१२२) टीका-तस्मान्न किञ्चिद्विषयसुखाभिलाषेणेति दर्शयन्नाह–भोगसुखैः किमनित्यैरित्यादि । भुज्यन्त इति भोगाः शब्दादयस्तज्जनितानि सुखानि भोगसुखानि । तानि चोक्तेन न्यायेनानित्यानि । किमिति क्षेपे । न किञ्चिदेभिरित्यभिप्रायः । भावयन् चौरदायादाग्निभूपतिभ्यो नित्यमेवाशङ्कते । भोगसुखकारणेषु वृद्धिसमुदयेषु भयबहुलेषु 'प्रभूतभयेषु । काङ्कितैरित्यभिलषितैः । परायत्तैरिति शब्दादिविषयायत्तैर्मनोहारिषु शब्दादिषु सत्सु नित्यतामित्याह-क्षणेति । क्षणेन-स्तोककालेनापि । विशब्दः कुत्सायाम् । विपरिणामःकुत्सितपरिणतिर्धर्म:-स्वभावो येषां ते तथा, प्रीता अप्यप्रीता जायन्ते, स्तोककालेनान्यस्वभावा भवन्तीति भावना। केषाम् ?-मानां-मनुष्याणाम् । क एवंविधा भवन्ति ?-ऋद्धिसमुदयाविभूतिनिचयाः सर्वे-अशेषाः । सर्वे च शोकजनका:-शोकहेतवः । तथा संयोगाः-सम्बन्धाः पुत्रपत्नीप्रभृतिभिर्विप्रयोगान्ता-विरहान्ता भवन्तीति शेष इति ॥१२१॥ (१२२) (वि०) यस्मादेवं तस्मान्न किञ्चिद्विषयसुखाभिलाषेणेति दर्शयन्नाहभोगसुखैरिति । भोगसुखैः-विषयसातैः किं ?, न किञ्चित् । कीदृशैः ?-पूर्वोक्तन्यायेन अनित्यैः भयबहुलैः-भीतिप्रचुरैः, काक्षितैः२-अभिलषितैः परायत्तैः-स्त्र्यादिपदार्थसार्थाधीनः, संयोगा वियोगावसानाः ॥१२१॥ (१२२) (अव०)-१कि क्षेपे, अनित्यैः अशाश्वतैः, अभिलषितैः, स्त्र्यादिशब्दादि विषयायत्तैः, नित्यमात्यन्तिकम्, व्यपगतरोगादिभयम्, आत्मस्थं स्वायत्तम्, तस्मिन् प्रशमसुखे यतनीयम् ॥१२२॥
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy