SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ मन:स्थिरीकरणप्रकरणम् पूर्वमेतयोः सव्वगिहेसु वि मिच्छे (गाथा १५३) इत्यादी ग्रहणात् ।। १६३ ।। १६४।। [मूल] इय संसारिजियाणं, भणियमिणं इण्हि तव्विवक्खाणं । सिद्धाणं जहसंभवमेयाणि पयाणि चिंतेमा । । १६५।। [व्याख्या] इत्येवं संसारिजीवानां पृथिव्यादिदेवान्तानामिदं जीवगुणस्थानादिध्येयस्थानकदम्बकं भणितम्। अथ संसारिभ्यो निष्कर्मत्वेन विपक्षाणां सिद्धानां यथासम्भवमेतान्येव जीवस्थानादीनि पदानि चिन्तयामः । एतदेवाह [मूल] केवलउवओगदुगं, दिट्ठी सम्मेग आगइ नरेहिं । साई अनंता ठिई, दुहावगाहो य सिद्धाणं ।। १६६।। [व्याख्या] इह सिद्धानामुपयोगद्वारे केवलज्ञानकेवलदर्शनलक्षणमुपयोगद्वयमस्ति । दृष्टिद्वारे क्षायिकसम्यक्त्वरूपा एकैव दृष्टिः। आगतिद्वारे मनुष्यगतेरेवागतिः । स्थितिद्वारे साद्यनन्तकालरूपा स्थितिः । अवगाहद्वारे अवगाहो द्विधा ।। १६६।। स चाय [मूल] उक्कोस धनुतिसई, तेतीसहिया धणुत्तिभागो य । सतिभागरयणि लहुओ, सिद्धेसु न सेसु वीसपया ।। १६७।। ८५ [व्याख्या] तत्रोत्कृष्टोऽवगाहो धनुषां त्रिशती त्रयस्त्रिंशदधिका धनुस्त्रिभागश्च द्वात्रिंशदङ्गुलरूपः जघन्यः, पुनरङ्गुलाष्टका एकैव रत्निः । शेषाणि पुनर्जीवगुणस्थानादीनि विंशतिरपि पदानि सिद्धेषु शरीरस्य मिथ्यात्वादीनां चाभावान्नैव सम्भवन्तीति ।। १६७ ।। अथ प्रकरणसमाप्तौ एतत्प्रकरणार्थस्य सततोद्यततयाध्ययनचिन्तनपरिवर्तनध्यानपरिशीलनश्रवणव्याख्यानादिषु स्वयं प्रवर्तमानाः परांश्चैतत्प्रकरणाध्ययनादिषु प्रवर्तयन्तो अध्येतारः, श्रोतारः, व्याख्यातारः, ध्यातारश्च यत्फलमाप्नुवन्ति तदाह [मूल] इय पुढवाइपएसुं, जियगुणमाईणि चिंतयंताणं । कम्मवणगहणदहणं, भवमहणं होइ सुझाणं ।। १६८ ।। = [व्याख्या] इत्येवं पृथिव्यादिपदेषु त्रयोदशस्वपि सर्वाण्यपि जीवगुणस्थानादीनि । सिद्धेषु पुनस्तान्येव यथासम्भवं सूत्रादावुक्ततृतीयगाथाव्याख्यानप्रदर्शितध्यानविधिना ध्यायतां भव्यप्राणिनां कर्माण्येवाष्टाष्टपञ्चाशदधिकशतसङ्ख्यानि मूलोत्तरप्रकृतिरूपाणि वनगहनं तस्य दहनमिव ज्वालाजालजटालकरालज्वलनसदृशम्, एव संसारतरुप्ररोहप्रवरबीजभूतस्य चतुर्विधस्यापि नारकतिर्यगड्नरामररूपस्य भवभ्रमणस्य मथनं निर्नाशकं भवति शुभं ध्यानं धर्मध्यानरूपम्। ततश्च विशुद्धधर्मध्यानसंसिद्धौ क्रमेण शुक्लध्यानमुपसम्पद्यते । ततोऽपि सयोग्ययोगिगुणस्थानकारोहणक्रमेण अपारसंसारपारावारपारमासाद्य सर्वात्मना निःकर्मीभूय नित्यानन्दमयं महानन्दपदं भव्यजन्तवः सपदि समासादयन्तीति । अत्र च भाष्यमहोदधिभिः श्रीजिनभद्रगणिक्षमाश्रमणपूज्यैर्ध्यानशतके शुभध्यानस्य फलमिदमभाणि संवरविणिज्जराओ, मुक्खस्स पहो तओ पहो तासिं। झाणं च पहाणं गंतव्वस्स तो मोक्खहेऊ तं ।। अंबरलोहमईणं, कमसो जह मलकलंकपंकाणं । सो झावणयणसोसो, साहिंति जलानलाइच्चा ।।
SR No.009261
Book TitleMan Sthirikaran Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Rupendrakumar Pagariya
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy