SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ मन:स्थिरीकरणप्रकरणम् माया वलेहिगोमुत्तिमिंढसिंगघणवंसिमूलसमा। लोहो हलिदखंजणकद्दमकिमिरागसारिच्छो।। पक्खचउमासवच्छरजावज्जीवाणुगामिणो कमसो। देवनरतिरियनारयगइसाहणहेयवो भणिया।। (प्रवचनसारोद्धार-५६१,८२८,१२५६; उवएसमाला-३०१) ननु यदि सज्वलनादयः क्रमेण देवमानवतिर्यड्नरकगतिहेतवः तत्कथं सङ्गमादयो नित्यानन्तोदयिनोऽपि स्वर्गम्, श्रेणिकादयस्तु द्वितीयकषायोदयिनोऽपि नरकं जग्मुः? सत्यम्, एते अनन्तानुबन्धिक्रोधादयः षोडशापि पुनर्यथास्वं चतुश्चतूरूपत्वात् चतुःषष्ठिधा भवन्ति। तद्यथा- अनन्तानुबन्धी क्रोधो अनन्तानुबन्धिक्रोधप्रतिरूपः, अत्यन्ततीव्रतमत्वात्। अनन्तानुबन्धी क्रोधो अप्रत्याख्यानावरणक्रोधप्रतिरूपः, किश्चिन्मन्दत्वात्। अनन्तानुबन्धी क्रोधः प्रत्याख्यानावरणक्रोधप्रतिरूपः, मन्दतरत्वात्। अनन्तानुबन्धी क्रोधः सज्वलनक्रोधप्रतिरूपः, मन्दतमत्वात्। एवम् अप्रत्याख्यानावरणोऽपि क्रोधो अनन्तानुबन्धक्रोधप्रतिरूपोऽत्यन्तमुत्कटत्वात्। अप्रत्याख्यानावरणक्रोधः प्रत्याख्यानावरणक्रोधप्रतिरूपः, किश्चिदुत्कटत्वात्। अप्रत्याख्यानावरणः क्रोधः प्रत्याख्यानावरणक्रोधप्रतिरूपः, किञ्चित् मन्दत्वात्। अप्रत्याख्यानावरणः क्रोधः सज्वलनक्रोधप्रतिरूपो मन्दतमत्वात्। एवं प्रत्याख्यानावरणक्रोधोऽपि अनन्तानुबन्ध्यादिक्रोधचतुष्कप्रतिरूपतया चतुर्द्धा वाच्यः। एवं सज्वलनक्रोधोऽपि अनन्तानुबन्ध्यादिक्रोधचतुष्कप्रतिरूपतया चतुर्की वाच्यः। तदेवमयं क्रोधः षोडशधापि प्रादर्शि। एवम् अनन्तानुबन्ध्यादिचतुर्विधमानोऽपि प्रत्येकम् अनन्तानुबन्धि-अप्रत्याख्यान-प्रत्याख्यानावरण-सज्वलनमानचतुष्कप्रतिरूपत्वैः षोडशधा वाच्यः। एवम् अनन्तानुबन्याधदिचतुर्विधमायाऽपि प्रत्येकम् अनन्तानुबन्धिअप्रत्याख्यान-प्रत्याख्यानावरण-सज्वलनमायाचतुष्कप्रतिरूपत्वैः षोडशधा वाच्या। एवम् अनन्तानुबन्ध्यादिचतुर्विधलोभोऽपि प्रत्येकम् अनन्तानुबन्धि-अप्रत्याख्यान-प्रत्याख्यानावरण-सज्वलनलोभचतुष्कप्रतिरूपत्वैस्तावद्वाच्यो यावन्मूलाभिहितचतुःषष्ठिभेदापेक्षया एकषष्ठितमभेदे सज्वलनलोभो अनन्तानुबन्धिलोभप्रतिरूपो, अत्यन्ततीव्रतमत्वात्। सज्वलनलोभोऽप्रत्याख्यानावरणलोभप्रतिरूपः किञ्चित् तीव्रतमत्वात्। सज्वलनलोभः प्रत्याख्यानावरणलोभप्रतिरूपो मन्दत्वात्। सज्वलनलोभः सज्वलनलोभप्रतिरूपोऽत्यन्तं मन्दतमत्वात्। ततः सङ्गमकादयोऽनन्तानुबन्धिभिरपि सज्वलनप्रतिरूपैः स्वर्गम्, श्रेणिकादयस्तु अप्रत्याख्यानैरपि अनन्तानुबन्धितुल्यैर्नरकं जग्मुरिति। अथैतान् षोडशापि पृथिव्यादिगृहेषु बन्धं उदयं सत्तां चाश्रित्य प्रतिगुणस्थानं भावयन्नाह[मूल] सोलसकसाय तेसिं, बंधोदय संतए भणे कमसो । सव्वगिहेसु वि मिच्छे, बिंदियपमुहट्ठसू साणे ॥१५३।। मयवसओ भूदवणे, पत्तेयं सोल बंधुदय संते । तिरिमणुनिरसुरमीसे, बंधुदए बार सति सोल ।।१५४।। व्याख्या] सुगमम्। नवरं सति सोलस त्ति। सच्छब्देन सत्तोच्यते। ततश्च सत्तायां षोडशेत्यर्थः ।।१५३।।।।१५४।। तथा[मूल] चउसु वि गिहेसु अजए, बंधुदए बार तह य संतम्मि । खयसंमि बार सोलस, उवसमखाउवसमसम्मे ।।१५५।। व्याख्या] सझितिर्यङ्मनुष्यनारकदेवसम्बन्धिषु चतुर्ध्वपि गृहेष्वयतगुणस्थानके बन्धोदययोरप्रत्याख्या
SR No.009261
Book TitleMan Sthirikaran Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Rupendrakumar Pagariya
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy