________________
७०
मन:स्थिरीकरणप्रकरणम्
एकोत्तरं शतम्, मिश्रे एकोनसप्ततिः, अयते एकसप्ततिः, देशे सप्तषष्ठिरिति।।११०।।
[मूल] तइयकसाऊण तिसठि, छट्ठए सोगअरइअथिरदुगं ।
अजसअसाए हिच्चा, आहारदुगंमि खित्तम्मि ।।१११।। व्याख्या] स्पष्टा।।१११।। [मूल] अपमत्तो जो सुराउं, पमत्त आरद्धयं तु जा पुरे ।
ताव गुणद्धिं तदुवरि, अडवनमियरो य तामेव ।।११२।। व्याख्या] अप्रमत्तो हि मूलत एकमप्यायु! बध्नाति। केवलं प्रमत्तावस्थायां बद्धमारब्धं ततोऽप्रमत्तः सन् एकमेव सुरायुः स्वगुणस्थानकालस्य सङ्ख्येयभागेन समापयतीति स्थितिः। इति गाथार्थः । अप्रमत्तो यः प्रमत्तारब्धं सुरायुर्यावत्पूरयति तावदसावेकोनषष्ठिम्। तदुवरि त्ति। सुरायुर्बन्धसमाप्तेरनन्तरं अष्टपञ्चाशतं बध्नातीति। इतरस्तु योऽप्रमत्तः सर्वथाप्यायुरबन्धकः स तामेवैकामष्टपञ्चाशतं करोतीति।।११२।।
तथा
[मूल] अपुव्वे सत्तंसा, एसेव डवन्न पढमभागंमि ।
बितिचउपणछट्टेसुं, निद्ददुगं मुत्तु छप्पण्णा ।।११३।। सुरविउव्वाहारदुगा, जसूणतसदसगतित्थसुहखगई ।
अगुरुव्वग्घाउस्सास, परघाय पणिंदि नमिण समचउर।।११४॥ व्याख्या] गीतिरियम्।।११३।।११४।।
[मूल] वन्नचउ तेयकम्मि, त्तितीस मुत्तुं छव्वीस चरिमंसे । व्याख्या] एतद् गुणस्थानमन्तर्मुहूर्तमानमपि कर्मस्तवटीकाभिप्रायेण सामान्येन सप्तभागान् कृत्वा व्याख्यानम्। तथेह यशःकीर्तेर्दशमगुणे व्यवच्छेदो भविष्यतीति कृत्वा तदूनं त्रसदशकमुक्तम्। शतकाभिप्रायेण तु सङ्ख्येयान् भागान् क्रियते। ततः प्रथमे सङ्ख्येये भागेऽष्टपञ्चाशतो बन्धस्तदनु सङ्ख्येयेषु सङ्ख्येयतमभागेषु पृथक् पृथक् षट्पञ्चाशतस्ततोऽपि चरिमे सङ्ख्येयभागे षड्विंशतेरिति। तथोत्तरार्द्धम्
[मूल] भयकुच्छरइहासूण, बावीसा नवमपढमंसे ।।११५।। तथा[मूल] अनर इगवीस बीए, तइए वीसा अकोड अह तुरिए ।
माणूणा गुणवीसा, मोऊणट्ठार पंचमए ॥११६।। व्याख्या] एतदपि गुणस्थानकम् अन्तर्मुहूर्तमानमपि कर्मस्तवटीकाकूतेन सामान्येन पञ्चभागान् कृत्वा व्याख्यातम्। शतकटीकाभिप्रायेण तु सङ्ख्येयान् भागान् एकेन चरमेण सङ्ख्येयभागेनोनान् यावद् विंशतेर्बन्धस्ततः सोऽपि चरमः सङ्ख्येयो भागः पुनः पञ्चभागीक्रियते, ततस्तेषु पञ्चसु भागेषु यथाक्रमं द्वाविंशत्यादीनामष्टादशान्तानां प्रकृतीनां बन्ध इति।।११६।। तथा[मूल] लोभूण सतर सुहुमे, जसुच्चचउदंसविग्घनाणविणा ।
उवसंत खीणजोगा, सा एग अजोगि न हु बंधो ।।११७।। [व्याख्या] सुगमा।।११७।।