________________
मन:स्थिरीकरणप्रकरणम्
अथ कर्मणां मूलप्रकृतिबन्धद्वारम्[मूल] नाणस्स दंसणस्स य, आवरणं वेयणीयमोहणीयं ।
आउयनाम गोयंतराय इय मूल अडपयडी ।।७१।। व्याख्या] सुगमा।।७१।। अर्थतास्वष्टसु मूलप्रकृतिषु पृथिव्यादीनां द्विविधां बन्धस्थितिमाह[मूल] आवरणदुगे विग्घे, बंधहि एगिदिया हु अयरस्स ।
सत्तं सगतिगमूणं, जहन्नमुक्कोसओ पुन्नं ।।७२।। व्याख्या] आवरणद्विके ज्ञानावरण-दर्शनावरणलक्षणे। विग्घ त्ति। विघ्ने ह्यन्तरायके। तस्य चाद्यकर्मद्वयेन बन्धस्थित्या बन्धोदयोदीरणासत्ताव्यवच्छेदैश्च समानत्वाद् व्यतिक्रमेण अपीह ग्रहणम्। एकेन्द्रियाः पृथिव्यादयः पश्चापि। हुरिति निश्चये। यादृशैः सप्तभिर्भागैः सागरं सम्पूर्णं भवति तादृशमतरस्य सप्तांशकत्रयं जघन्यपल्यासङ्ख्येयभागेनोनम्। उत्कृष्टतस्तु सम्पूर्णं बध्नन्तीति सम्बन्धः।।७२।। तथा[मूल] दस इगवीस बिचत्ता, चउसयअडवीस अयर विगलमणे ।
सत्तंस पण ति छ चऊ, किंचूण लहू गुरू पुन्ना ।।७३।। व्याख्या] सागराणि दश-एकविंशति-द्विचत्वारिंशत्-चत्वारिशतान्यष्टाविंशत्यधिकानि उपरि च सागरसप्तांशकात् पञ्च त्रीन् षट् चतुरश्च क्रमेण द्वित्रिचतुरिन्द्रियामनसः कर्मत्रये बध्नन्ति। नवरं सागरसागरभागादिकं निजनिजं यथोक्तमानम्। पल्यासङ्ख्येयभागेनोनं सजघन्यस्थितित्वेन। तदेव सम्पूर्ण सदुत्कृष्टस्थितित्वेनेति विशेषः।।७३।। अथायं बन्धस्थितेर्विषयविभागः कुतो लभ्यते?, उच्यते, करणवशात्। तच्च गाथाद्वयात्मकमिदम्[मूल] मूलियर पयडि नियनियगुरुठिइ हर सयरिकोडिकोडिए ।
जं लद्धं तमिगिंदियगुरुठिई किंचूण सा लहुई ।।७४।। एयं चिय एगिदियबंधं विगलामणेसु जाणाहि ।
पणुवीसा पन्नासा, सएण सहसेण गुणिऊणं ।।७५।। व्याख्या] इहैकेन्द्रियादीनां गरीयस्या लघीयस्याश्च बन्धस्थितेरानयनाय करणमिदम्। अस्यार्थःमूलप्रकृतीनामुत्तरप्रकृतीनां च यका यका निजनिजा गुरुस्थितिस्तस्याः सागरकोटीकोटीसप्तत्या भागे दत्ते यल्लभ्यते तत्सम्पूर्णं बादरपर्याप्तैकेन्द्रियाणां गरीयसी बन्धस्थितिस्तदेव पल्यासङ्ख्येयभागोनं लघीयसीति। तद्यथाज्ञानावरणस्य गुरुस्थितेः सागरत्रिंशत्कोटीकोटीरूपायाः सागरकोटीकोटीसप्तत्या भागे दत्ते भागाभावाच्च समशून्यापगमे कृते आगतं सागरस्य त्रयः सप्तभागाः ततोऽयमर्थो बादरपर्याप्तैकेन्द्रिया ज्ञानावरणस्य कर्मण उत्कृष्टतः सागरस्य सप्तमांस्त्रीन् भागान् सम्पूर्णान् बध्नन्ति, जघन्यतस्तु तानेव त्रीन् सप्तभागान् पल्यासङ्ख्येयभागेनोनानिति। ननु किमिति सूत्रे निरुपपदे एकेन्द्रियोपादाने सति तेषां बादरा इति पर्याप्ता इति च वृत्तौ विशेषणद्वयं क्रियते ? कथं वा सर्वैकेन्द्रियभेदसङ्ग्रहाय सामान्येन निर्विशेषणा एव ते नाद्रियन्त ? इति,
१ व्याख्याकर्तुः टिप्पणी- एतच्च एकविकलामनोगृहनवकं यथेह कर्मत्रये प्रादर्शि । तथा वेद्य-मोह-नाम-गोत्रेष्वपि पृथक् पृथग्
दर्शयिष्यते । सञ्जितिर्यगादिगृहचतुष्टयं तु कर्मसप्तकेऽपि लाघवार्थं पश्चादिहैव भणिष्यते ।