________________
१५९
१६०
चतुर्थो भवः चेट्याह प्रेषिता साधुं स्वामिन्याऽहं गवेषितुम् । अपरं तु न जानामि स दध्यौ नान्यथा ह्यदः ॥६५०|| युग्मम् ऊचेऽथ भद्रे मा भैषी: किमुद्दिश्य गवेषितुम् । प्रेषिताऽस्यवदच्चेटी कल्ये भिक्षाकृते स हि ॥६५१॥ तृतीयप्रहरेऽविक्षदगृहीत्वा च निर्गतः । निर्गच्छन्तं च तं प्रेक्ष्य स्वामिन्या भणिताऽस्म्यहम् ॥६५२॥ हले मञ्जरिके ! गच्छ क्वायं श्रमणकः स्थितः । इति ज्ञात्वा ममाऽऽख्याहि मया तच्च निवेदितम् ॥६५३॥ विशेषकम् कार्य पुनर्न जानेऽहमथोचे दण्डपाशिकः । किं तया विहितं तत्र सा प्राह प्रणतोऽपि न ॥६५४।। चामुण्डा चर्चिता तत्राऽऽरक्षेणाथ विचिन्तितम् । करदेवीविधानार्थं तया परिजनं निजम् ॥६५५|| विप्रतार्य हतोऽसौ तज्ज्ञास्याम्यास्यविकारतः । गते पार्श्वमिह क्षुब्धा धनश्रीस्तेन लक्षिता ॥६५६।। उक्ता च मां महाराजः प्रैषीदन्वेषणाकृते । ऋषिहत्याकृतस्त्वं च प्रसुप्ता चण्डिकागृहे ॥६५७।। अयं ज्ञातश्च वृत्तान्तो मया तत्त्वं समापत । गच्छामो नरनाथस्य समीपे साऽथ साध्वसात् ॥६५८॥ प्रकम्पमानसर्वाङ्गा पपात धरणीतले । धरणीधवतो रक्षत्यसाविति धिया किल ॥६५९॥ विशेषकम् आरक्षो ध्यातवानेतदवश्यं विदधेऽनया । अन्यथा कथमीदृशं भयं निर्भत्सिता ततः ॥६६०।। मिलितश्च जनः श्रुत्वा नन्दकस्तत्तथाविधम् । ग्रहीष्येऽहमपि ध्यात्वा द्वारादेव पलायितः ॥६६१।।
समरादित्यसंक्षेपः नीत्वा नृपतिपार्श्वे तां तद् वृत्तान्तं व्यजिज्ञपत् । तलारक्षोऽथ तां राजा वीक्ष्य चित्ते व्यचिन्तयत् ॥६६२।। आकृत्येक्षया कर्म किमीक्षं विधास्यति । ध्यात्वेत्यूचे नृपः कस्मात्त्वं चण्ड्यायतनं गता ॥६६३।। क्षुब्धा किञ्चिन्न सा प्रोचे साशङ्को नृपतिस्ततः । पुनः पप्रच्छ काऽसि त्वं कस्य पुत्री प्रियाऽसि च ॥६६४।। तयोचे पूर्णभद्रस्य धनश्रीरित्यहं सुता । पत्नी समुद्रदत्तस्य तद्भर्ताऽथ गवेषितः ॥६६५।। तस्मिन्ननुपलब्धेऽथ नृपः शुद्धस्वभावतः । यथास्थितं प्रजापाल इति शब्दं समुद्वहन् ॥६६६।। न शक्नोति वराकीयं पुरो मम निवेदितुम् । प्रयोजनं कदाचित्तु विश्वस्ता कथयिष्यति ॥६६७|| ध्यात्वेति गुप्तिपालेन विदधे तां सुरक्षिताम् । नित्यशः पृच्छयमानाऽपि न सा किञ्चित्तु जल्पति ॥६६८॥ विशेषकम् ज्ञातुं कुलादिकं पूर्णभद्राय प्रेषि भूभुजा । तत्तद् वृत्तान्तलेखेन सनाथो लेखवाहकः ॥६६९|| तद्विज्ञप्तियुतः सोऽयमागात्कतिपयैदिनैः । धनश्री म पुत्र्यासीत्परं सा कुलदूषणा ॥६७०।। तद्वीक्ष्य दध्यौ भूनेता तयेदं विदधे ध्रुवम् । अकृत्याचारशीलेयं महापापा विमूढधीः ॥६७१।। तथापि हि न वध्या स्त्री ध्यात्वेति निवासयत् । स्वराज्यात्तां निजैर्भूत्यैर्दासेरीमिव रोगिणीम् ॥६७२।। युग्मम् व्रजन्ती वासरान्ते सा क्षुत्तृषाभ्यां विबाधिता । ग्रामदेवकुले सुप्ता दष्टा दुष्टेन भोगिना ॥६७३।।