________________
चतुर्थो भवः
१४९
१५०
गुणहीनः सदा तात ! भव एष स्वभावतः । स्वरूपमस्य जानन्ति न महामोहमोहिताः ॥५३४।। अकृत्येषु प्रवर्तन्ते समीक्षन्ते च नायतिम् । सुराणामिपि तुल्यास्तु जन्ममृत्युवियोगकाः ॥५३५।। दारुणश्च विपाकोऽस्य भवस्य प्रविजृम्भते । यत्पिष्टकुक्कुटस्याऽपि वधः परिणतः कथम् ॥५३६।। उक्त्वेति निजदुःखाऽनुभवयुक्तं सविस्तरम् ।। आख्यं सुरेन्द्रदत्तादिजातिस्मृत्यन्तमात्मनः ॥५३७|| अकृत्याऽऽचरणस्याहो विपाकः पश्य दारुणः । जल्पन्निति नृपाम्बादिलोकः संविग्नतामगात् ।।५३८।। ततो मयोक्तमीदृक्षं परिणामं निरीक्ष्य मे । विरक्तं भवतश्चित्तं जैनबोधश्च जृम्भितः ॥५३९|| अनुजानातु मां तातो यथा ताताऽनुभावतः । नि:फलं मानुषं जन्म सफलं विदधाम्यहम् ॥५४०।। ततस्तातोऽवदन्मोहात्सफलं तेऽस्तु जीवितम् । परिणीय वधूमेतां प्रजानां कुरु पालनम् ।।५४१॥ मयोचे तात मच्चित्तं विरक्तं भवचारकात् । तद्दारसंग्रहेणाऽलं कोऽत्र दोषो नृपोदिते ॥५४२॥ मयोचेऽसौ मदावास: प्रतिपक्षः शमस्य च । व्याधिनिरौषधो मित्रं व्याक्षेपस्य क्षयो धृतेः ।।५४३|| सध्यानवैरी मोहस्याऽऽयतनं दुःखजन्मभूः । सीदन्ति पुरुषा ह्यत्र पञ्चास्या इव पञ्जरे ॥५४४|| युग्मम् नोचितं किं च सौवर्णस्थालेनाऽमेध्यशोधनम् । विषया हि पुरीषाभाः स्वर्णस्थालं नृजन्म तु ॥५५५।।
समरादित्यसंक्षेपः तदलं सर्ववार्ताभिरनुजानीहि मे व्रतम् । राज्ञोचे वक्षि सत्यं त्वं पीड्येऽहं स्नेहकातरः ॥५४६|| मयोक्तं तात सत्यस्य स्नेह एष परो रिपुः । अयमेव प्रधानं च भवबन्धनिबन्धनम् ॥५४७|| भवो दीप इव स्नेहसहितः संसरत्यलम् । निरुपायो न निर्वाणं लभते स कथञ्चन ॥५४८।। नृपेणोक्तमिदं सत्यं खिद्यते किं तु सा वधूः । मयोक्तमल्पकं ह्येतदन्यच्चास्यै निवेद्यते ॥५४९।। कदाऽपि साऽपि श्रुत्वैवं बोधं प्राप्नोति तद्वरम् । तातोऽथ युक्तमित्युक्त्वा प्रजिघाय पुरोधसम् ॥५५०।। एवं स्थिते किमस्माभिः कार्यं गत्वेति तां वद । स शङ्खवर्धनाख्योऽथ गत्वाऽऽयातोऽवदन्नृपम् ॥५५१।। महाराजा सुसम्पन्नाः कुमारस्य मनोरथाः । गतः सन् बहुमानेन वेत्रिणाऽहं प्रवेशितः ॥५५२।। सौवस्तिकस्तवेत्युच्चै राजपुत्र्याऽभिनन्दितः । तद्दापितासने चोपविश्यतामित्यभाणिषम् ।।५५३॥ किञ्चिद्वक्तव्यमस्तीति सा प्राहाऽऽर्यो वदत्विति । मयोक्तमेषा देवाज्ञा सावधाना ततः शृणु ॥५५४|| विधाय साथ नौरङ्गीमासनादवतीर्य च । बद्धाञ्जलिरुवाचेति किमादिशति मे गुरुः ॥५५५।। मया प्रोक्तं कुमारस्याऽऽगच्छतः साधुदर्शनात् । जातिस्मृतौ स्मृताः पूर्वभवास्त्वं तान्निशामय ॥५५६।।
१. न्यच्चासौ ख च ।