________________
चतुर्थो भवः
गतं सच्चेष्टितं मे ह्यपुण्यानां स्यान्न चिन्तितम् ।
ध्यात्वा निःश्वस्य च प्राह विधेहि नृपशासनम् ॥१३७॥ विशेषकम्
अदीनमानसः साधुर्वध्यतेऽसौ हहा मया । सगद्गदमिति प्रोचे श्वपचेन धनः पुनः ॥ १३८ ॥ स्मरेष्टदेवतां तर्हि स्वर्गस्याऽभिमुखो भव । परार्थो न कृतो ध्यायन्धनः स्वर्गाभिमुख्यभूत् ॥१३९॥ कृष्ट्वासिमन्त्यजः स्कन्धे वाहयित्वा निजे मनाक् । ऊचे शृणुत हे लोका! वञ्चयित्वा नृपाङ्गजाम् ॥१४०॥
हृता त्रैलोक्यसारख्या रत्नावल्यागसाऽऽमुना । निबध्य बध्यते वध्यस्तेन स्तेन इवासकौ ॥ १४१ ॥ युग्मम्
उक्त्वेति खङ्गमुद्यम्यादत्त्वा घातं कृपावशात् । हित्वा खङ्गं पपातैष पृथ्व्यामूचे धनेन सः ॥ १४२ ॥
राजाज्ञां कुरु स प्राह न प्रहतु क्षमस्त्वयि । अकृताऽपकृतौ किं ते देव ! सम्पादयाम्यतः || १४३॥ तदा सुमङ्गलाभिख्यः प्रथमो राजनन्दनः । उद्याने भोगिना दष्टः क्षणेनाऽभूदचेतनः || १४४|| मन्त्रौषधाद्यगम्येऽत्र राजादेशात्पुरेऽखिले । पटहैर्घोषयामासुर्भ्रान्त्वा पाटहिका इति ॥ १४५ ॥ जीवयत्यहिना दष्टं यः कोऽपि नृपनन्दनम् । प्रार्थितं दीयते तस्य वस्तु नास्त्यत्र संशयः ॥ १४६॥
पटहध्वनिमाकर्ण्य धनः प्रोचे जनङ्गमम् । सम्पादयेदं दष्टेऽस्मिन् जीविते हन्तु मां भवान् ॥१४७॥
१. परार्थमकृतं ख ग घ ।
११५
११६
समरादित्यसंक्षेपः
स्पृष्टेऽथ पटहे राजनरैर्नीतो नृपान्तिके । वृत्तान्ते कथिते राजा तं प्रोचे जीवयात्मजम् ॥१४८॥
मन्त्रस्य पश्य सामर्थ्यं नरनाथ ! विषीद मा । धनः प्रोच्य स्मरन्मन्त्रं नृपपुत्रमजीवयत् ॥१४९॥ संजाते साधुवादेऽस्य राज्ञा राज्ञीभिरप्यलम् । वृष्टं विभूषणैः प्रोचे धनस्तु किमनेन मे ॥ १५० ॥ राज्ञोक्तं तव किं कुर्वे स प्रोचे कुरु वाञ्छितम् । चण्डालनाम्नोऽचण्डालभावस्य वधकारिणः ॥ १५१ ॥ राजा दध्यावहो सत्त्वमयं नाकृत्यकृद्भवेत् । पृच्छाम्यमुमथेष्टस्याऽनन्तरं प्रच्छनं वरम् ॥१५२॥ राजादेशाद्गतो वेत्री तं प्रोचे खङ्गिलाख्यरे । तुष्ट नरेन्द्रस्तच्चूडामणिर्वास्य सुताऽसुदः ||१५३||
स प्राह किं विमुक्तोऽसौ नरेन्द्रेषु शिरोमणिः । वेत्र्याह नात्र संदेहस्त्वमर्थय समीहितम् || १५४ ।। खङ्गिलः प्राह तद्देवप्रसादादिदमस्तु मे । लोकद्वयविरोधिन्याऽनया जीविकया कृतम् ॥ १५५॥ वेयाह भूरि याचस्व स प्रोचे भूरिभूर्यदः । वेत्र्याख्याते नृपस्तस्याऽस्तौद्विवेकनिरीह ॥१५६॥ धनः प्रोवाच जात्यैव चण्डालः स तदीहितम् । करोतु देवो राज्ञोचे कृतमेवेदमत्र किम् ॥१५७॥ अन्यच्च त्वं स्वहस्तेन स्वर्णलक्षं बहिः पुरात् । सहस्राऽन्त्यजवासाय देह्यूर्वी विन्ध्यवासिनीम् ॥१५८|| अनेनाऽथ नृपादेशे विहिते खङ्गिलस्तथा । नैवाऽतुष्यद्धनप्राप्त्या यथाऽसौ धनजीवितात् ॥१५९॥