SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ द्वितीयो भवः नद्धं काञ्चीपदे काञ्चीदाम वल्लभचित्तवत् । अङ्गदे भुजयोर्नद्धे पाशे इव मनोभुवः ॥१२४।। कण्ठस्तननितम्बस्पृक् पद्मरागमणीमयम् । दाम मर्कटबन्धेन न्यस्तं चञ्चलचक्षुषः ॥१२५।। मुक्ताहारोऽपि संजातकामराग इवाधिकम् । तत्कण्ठमवलम्ब्याऽहो नीवीस्पर्श समुद्यतः ॥१२६।। न्यस्तं ग्रैवेयकं कण्ठे कर्णयोः कर्णवेष्टके । शिरोदेशे शिरोरत्नं तस्या गात्रे नवांऽशुकम् ॥१२७|| मां हित्वा पूर्वमप्येषा दृश्यतामेति मत्सरात् । सा रत्नच्छाययाच्छन्ना नूनमाभरणस्थया ॥१२८।। तस्यां प्रसाध्यमानायां कुमारे च प्रसाधिते । राज्ञे व्यज्ञपि दैवज्ञैर्लग्नवेला समीपगा ॥१२९।। अथ तुर्यरवाहूतपौरपूरितदिग्मुखः । श्वेतहस्तिनमारूढः सितच्छत्रेण शोभितः ॥१३०।। प्रतिबिम्बैरिव स्वस्य कुमारैः परितो वृतः । पौरीभिरीक्ष्यमाणोऽग्रे मण्डपद्वारमागमत् ॥१३१।। युग्मम् तत्र श्वश्रूजनाभाव्यमाचारेण स याचितः । दत्त्वा तदधिकं स्तम्बेरमादुत्तीर्णवानयम् ॥१३२। सौवर्णमुसलेनाथ रत्नकाञ्ची द्युतिस्पृशा । श्वश्रूजनेन सानन्दं भग्ना भृकुटिरस्य च ॥१३॥ निरुध्य मण्डपे लोकं नीतो मातृगृहं वरः । यत्राऽस्ति विशदस्वच्छक्षौमच्छन्नमुखी वधूः ॥१३४॥ वदनाऽऽच्छादनस्याऽपनयनाभाव्यमर्थितः । सखीभिः कार्यमेतद्धि ममैवेति हसन्नयम् ॥१३५।। समरादित्यसंक्षेपः तत्तदभ्यधिकं दत्त्वाऽपानाययदयं मुदा । तामपश्यच्च कङ्केल्लिपल्लवोत्तंससुन्दराम् ॥१३६।। परिस्मेरमुखाम्भोजां हर्षसाध्वसनिर्भराम् । वहन्तीं विभ्रमं कञ्चिन्मनोहरमनोहराम् ॥१३७।। विशेषकम् अथ तस्याः कर: कालविलम्बं सोढुमक्षमः । वरस्य मिलितो मन्ये नखचन्द्रकरोत्करैः ॥१३८|| सानुरागे पुरा चित्ते पश्चात्तेन करे धृता । अन्तश्चतुरिकं नीता चतुरा चतुरेण सा ॥१३९।। तारामैत्री पुराऽप्यस्ति तयोविश्वस्तचेतसोः । सा तारामेलके विश्वविदिता समपद्यत ॥१४०|| तदातनस्य ताम्बूलवस्त्रमाल्यविभूषणैः । चके जनस्य सर्वस्योपचारं दुहितुः पिता ॥१४१।। अथो हुताशने सर्पिर्मधुलाजसमाहते । ज्वलति भ्रमितुं लग्नं मङ्गलानि वधूवरम् ॥१४२।। आद्ये वधूपिता स्वर्णभारलक्षं ददौ मुदा । हारकुण्डलकेयूरभूषणानि द्वितीयके ॥१४३।। तृतीये मङ्गले रूप्यस्थालकच्चोलकादिकम् । तुर्ये नानाप्रकाराणि महाय॑वसनानि च ॥१४४|| मुदितं हास्तिकाश्वीयैर्हस्तमोचनपर्वणि । लक्ष्मीकान्तनृपः पुत्रीकान्तमेकान्ततो व्यधात् ॥१४५।। वरस्याऽपि पिता सर्वं यथोचितमुपाचरत् । ददौ वध्वै महामूल्यं वसनाभरणादि च ॥१४६।। १. हस्तिकाश्वीयं क ख ग ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy