________________
३०३
३०४
सप्तमो भवः प्रास्तौद धर्मकथां भद्रा मोहनिद्रां समुज्झत । नित्यं जागृत संगृह्य धर्मजागरणोत्सवम् ॥५३६।। पापस्थानानि संत्यज्याऽङ्गीकुरुध्वं गुणव्रजम् । हताऽहितं प्रमादाऽख्यं कर्मबन्धनिबन्धनम् ॥५३७।। कर्मबन्धाद्धि दुःखानि जन्तुः प्राप्नोत्यनेकशः । यथेषोऽरुणदेवश्च देइणी च सुदुःखितौ ॥५३८।। ततो नृपतिना पृष्टो ज्ञानसूरस्तयोः कथाम् । आविश्चक्रेऽथ संविग्ना परिषन्निखिलाऽप्यसौ ॥५३९।। मूर्छितौ तौ सचैतन्यौ स्मृतजाती च दम्पती । अक्लिष्टौ शुद्धचित्तौ च चतुर्जानिनमूचतुः ॥५४०।। भगवन् ! यत् त्वयाऽऽदिष्टं तत्तथेति तदावयोः । प्रदेह्यनशनं कर्मरोगदुःखक्षयंकरम् ।।५४१॥ स चाऽवोचदवस्थाया अस्याः समुचितं ह्यदः । इदं ह्यनशनं सर्वसौख्यनिर्वाणकारणम् ॥५४२।। ततोऽनशनमादाय मुदितौ तौ मुनीश्वरम् । ऊचतुनौ शुभं जन्म धर्मसारथिना त्वया ॥५४३॥ यत्किचिद् व्यसनं चेदं स्वकर्मपरिणामजम् । तदादिश किमावाभ्यां कर्तव्यं भगवाञ्जगौ ॥५४४|| युवाभ्यां हि कृतं कृत्यं ममत्वं त्यज्यतामतः । मैत्री च भाव्यतां भावाद् दुःकृतं निन्द्यतां निजम् ॥५४५|| ज्ञानदर्शनचारित्रत्रयं च बहुमान्यताम् । चिन्त्यतां च प्रमादस्य वर्जनात्परमं शिवम् ॥५४६।। तत्प्रतिश्रुत्य चाऽऽरब्धं ताभ्यामत्राऽन्तरे नृपः । प्राह प्रभोऽल्पकस्याऽपि दुःकृतस्येदृशं फलम् ॥५४७||
समरादित्यसंक्षेपः अस्मादृशां तदुद्दामप्रमादवशवर्तिनाम् । का गतिर्भगवानूचे स्युर्दुर्गा दुर्गतिव्यथाः ॥५४८|| तासामपेक्षया चैतन्न किञ्चिदत एव हि । आह लोकगुरुर्भक्ष्यं विषं क्रीड्यं हविर्भुजा ॥५४९।। संतर्पणीय आतङ्कः कर्तव्या शत्रसंगतिः । वसनीयं भुजङ्गैश्च न कर्तव्या प्रमादिता ॥५५०॥ इहलोकाऽपकारीणि विषादीन्यखिलान्यपि । लोकद्वयापकारी तु प्रमादः प्रथितो यतः ॥५५१।। विशेषकम् नृपः प्रोवाच भगवन्नस्त्युपायोऽपि कश्चन । सेवितस्य प्रमादस्य क्षपणेऽस्ति गुरुर्जगौ ॥५५२॥ स कीदृगिति राज्ञोक्ते गुरुः प्राह नरेश्वर ! । सर्वारम्भपरित्यागादप्रमादस्य सेवनम् ॥५५३।। तत्कर्मरोगभैषज्यं लोकद्वयसुखाऽऽवहम् । समग्रश्रेयसां हेतुः परमारोग्यसौख्यदम् ।।५५४।। नृपः प्राह किमेताभ्यामप्रमादो न सेवितः । गुरुः प्राहाऽप्रमादस्याऽतिशयो न निषेवितः ॥५५५।। अल्पेऽपि सेविते क्लेशो नैतस्मादधिकोऽनयोः । अतो भगवता ज्ञातभवमोक्षाऽत्मनोदितम् ॥५५६।। अप्रमादः सदा कार्यः स्मर्तव्यं पूर्वदुःकृतम् । निन्दितव्यं च संवेगादाख्येयं च गुरोः पुरः ।।५५७|| विधिपूर्वं च कर्तव्यं प्रायश्चित्तैविंशोधनम् । इत्थं दग्धे कर्मबीजे न विपाकाङ्करो भवेत् ॥५५८।।
१. नरेश्वर
ख
ग घ
ङ च ।