________________
२७०
समरादित्यसंक्षेपः
सप्तमो भवः तदेवं मे महाराज ! परिणामोऽस्य कर्मणः । गुरौ विपाकेऽल्पस्याऽपि कर्मणो विस्मिता सभा ॥१३७।। नरेन्द्रबन्धुदेवाभ्यामुक्तं भगवति त्वया । सोढं दुःखं महत् साऽऽह कि दःखं सौम्य ! नन्विदम् ॥१३८|| चतुर्गतिमये ह्यत्र भ्रमतां भविनां भवे । दुःखानां कः कठोराणां कर्तुं संख्यामपि क्षमः ॥१३९|| तिर्यग्नरकदुःखं तु दूरे नरभवेऽपि हि । यद् दुःखं गर्भवासे स्यात्तत्तस्यैव हि सन्निभम् ॥१४०।। ततो जन्मजरामृत्यरागशोकवियोगजैः । चिन्तासंतापसंजातैर्दुःखैः कैः कैर्न विद्रुताः ॥१४१।। यद् ग्राम्यधर्मजं सौख्यं पामाकण्डूयनोपमम् । विरामविरसेनाऽहो जनस्तेन विमोह्यते ॥१४२।। तस्माद्भोगान् परित्यज्य निरवद्यसुखावहम् । धर्म भजत भो भव्या ! भावतो जिनभाषितम् ॥१४३।। संविग्ना च सभा राजबन्धुदेवौ व्रतोद्यतौ । ऊचतुर्भगवत्यस्ति जिघृक्षा नौ जिनव्रते ॥१४४|| प्रतिबन्धं कृषा मा तयेत्युक्ताविमौ मुदा । दापयित्वा महादानान्यर्चयित्वा जिनावली: ॥१४५।। संमान्य प्रणयिव्रातमभिनन्द्य पुरीजनम् । दत्त्वा च हरिषेणस्य राज्यं निजयवीयसः ॥१४६|| नृपतिर्बन्धुदेवेन प्रधानैश्च निजैः सह । पुरुषेन्द्रगणे: पार्वे प्रव्रज्यां प्रतिपन्नवान् ॥१४७।। विशेषकम् न्ययोजयद्विषेणोऽथ सेनघाताय घातकान् । अयं न च्छलितोऽमीभिः सावधानः स्वभावतः ॥१४८||
अन्यदाऽस्तमितप्राये खावुद्यानपादपान् । अकालपुष्पितानीक्षाम्बभूव वनपालकः ॥१४९।। आख्यच्च मन्त्रिणस्तेन प्रेषितास्तन्निरूपकाः । तेषां च वीक्षमाणानां क्षणात्प्रकृतिमागताः ॥१५०|| एवं निवेदितेऽभ्येत्य तैरमात्यो व्यचिन्तयत् । कस्याऽपि गणकस्येदं कथ्यते तथ्यवेदिनः ॥१५१॥ तदा तत्राम्हुण्डाख्यः सिद्धपुत्रः समागतः । आकणितः समाहूय विजनेऽप्रच्छि मन्त्रिणा ॥१५२॥ किंविपाकोऽयमुत्पात: सिद्धपुत्रस्ततोऽवदत् । शास्त्रे राज्यपरावर्तविपाकोऽयं निवेदितः ॥१५३।। फलदश्चिरकालेन क्षीणवेलतया च सः । स्तोककालं च दृष्टत्वाच्चिरकालस्थितिर्न सः ॥१५४|| अमात्यः प्राह कोऽप्यत्र किमुपायोऽस्ति सोऽवदत् । पूजनं गुरुदेवानां दीनाऽनाथाऽनुकम्पनम् ॥१५५।। तदा द्वाःस्थः समेत्योचे राजा त्वामादिशत्यदः । शीघ्रमेव समागम्यं तथेत्युक्तं च मन्त्रिणा ॥१५६।। मन्त्री नैमित्तिकं प्राह किमाकारणकारणम् । ततो नैमित्तिक: प्राह संक्षेपात्तावदीदृशम् ॥१५७।। एतो राजपुमान् राजपुरस्वामिसकाशतः । स चानन्दकरो राज्ञस्तन्निमित्तो हवस्तव ॥१५८।। मन्त्री प्राह कथं हर्षहेतुः स प्राह तत्पठ । किञ्चित्ततोऽपठन्मन्त्री वरो जीयाज्जयश्रियः ॥१५९।। ततो नैमित्तिक: प्राह स हि सोमः समागतः । दातुं कुमारयोः कन्यां हर्षः संबन्धभूस्ततः ॥१६०||