________________
षष्ठो भवः
२३६
इदं राजकुलं श्रेष्ठी प्राह साधारणं हि तत् । धरणे विद्यमाने च प्रत्ययस्तु निरत्ययः ॥२५८|| ऊचे सुवदनो देव ! धरणस्याऽभिधाऽपि न । श्रुता मयाऽग्रे तद्देवः स्वयमेव परीक्षताम् ॥२५९।। नृपः श्रेष्ठिनमादिक्षद्धरणं त्वं समानय । त्वं च तां महिलां ताभ्यां प्रेषिताः स्वे नरास्ततः ॥२६०॥ अनिच्छन्नपि तैनिन्ये धरणो धरणीधवम् । भयत्रस्ता च सा लक्ष्मीरलक्ष्मीरिख जङ्गमा ॥२६॥ नृपस्तौ द्वावपि प्रेक्ष्य प्राह सुन्दर्ययं त्वया । सार्थवाहसुतो दृष्टो न दृष्ट इति साऽभ्यधात् ॥२६२।। पृष्टोऽथ धरणो भार्या तवाऽयं धरणोऽवदत् । देव पृष्टेन कि देवः शुश्रावाऽस्या वचः स्वयम् ॥२६३।। राज्ञोचे तेन पृच्छामि धरणः प्राह देव तत् । पुरा भवति भार्याऽसौ न सम्प्रति पुनः प्रभो ! ॥२६४।। धरणं प्राह राजाऽथ दृष्टः सुवदनस्त्वया । धरणः प्राह जानाति देव ! तच्चैष एव हि ॥२६५।। प्रोचे सुवदनो नाऽयं दृष्टः क्वाऽपि मया पुरा । नृपो द्वावप्यथाऽपृच्छदिहाऽस्ति द्रविणं कियत् ।।२६६।। ऊचे सुवदनः स्वर्णेष्टिकानां सम्पुटायुतम् । धरणेन तथेत्युक्ते प्राह सर्वसहापतिः ॥२६७|| सम्पुटानि कियत्तौल्यान्यथाऽऽह धरणः प्रभो ! । तथा तानि व्यधां नैव तौल्यं विज्ञायते यथा ॥२६८।। पृष्टः सुवदनः प्राह वेद्मि नाऽहमपि प्रभो ! । नृपः प्रोवाच सत्येवं किं कर्तव्यं मया ननु ॥२६९।।
समरादित्यसंक्षेपः धरणः प्राह नैवाऽहं घातकोऽस्याऽऽददात्वयम् । ऊचेऽन्यो यत्त्वया दत्तं नालं मे तव तद्बहुः ॥२७०|| अरणद्धरण: ख्यातो ह्यहमालप्रदायकः । ऊचे सुवदनश्चेन्न प्रस्तुतं किमिदं ततः ॥२७॥ ततस्तमाह साटोपष्टोपश्रेष्ठी विलज्ज रे । कृत्वैवमपि ही जल्पमनल्पं जल्पसीदृशम् ॥२७२।। महाराज ! बहूक्त्या किं काञ्चनं नास्य चेदिदम् । तद्दिव्यमस्तु मे प्राणाः सर्वस्वसहिताः पणः ॥२७३॥ धरणो ध्यातवाश्रेष्ठी स्नेहेनाऽपहतो मम । औदासीन्यमतः कर्तुं साम्प्रतं नैव साम्प्रतम् ।।२७४।। ध्यात्वेत्युवाच तातस्य देव ! यद्ययमाग्रहः । तत्कि दिव्यैरुपायोऽन्योऽप्यस्ति राजाऽऽह तं वद ॥२७५।। स प्राह सम्पुटेष्वस्ति नाम मे नृपतिर्जगौ । नाम किं तव स प्राह धरणोऽप्रच्छयथेतरः ॥२७६।। किं ते सुवदनो नाम तेनोक्ते प्राह भूपतिः । छिन्नो हि व्यवहारोऽयं सम्पुटेरेव तैस्ततः ॥२७७|| आनाय्य वीक्षितेष्वेषु नाऽलक्षि धरणाभिधा । राज्ञा प्रोक्तेऽथ नामाऽस्ति न ते सुवदनोऽवदत् ॥२७८।। प्रमाणं दैव एवाऽत्र देवस्याऽपि पुरोऽनृतम् । जल्पित्वाऽद्यापि हि प्राणान्धत्तेऽथाऽवादि भूभुजा ॥२७९।। किमिदं धरण प्राह धरणो नैतदन्यथा । सम्पुटं स्फोटयित्वाऽन्तर्नरनाथ निरूपय ॥२८०।।
१. ददात्ययं-नालमेव च क ।