SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ यत एव शिवं गतवान् भगवानत एव हि बिम्बगतो विहितः । अभवस्य भवेद् भजना भवहृत् किल सूत्रपदैरिव मूर्तिनुतैः ॥३७॥ प्रियया खलु चित्रकलाकृतया प्रतिबोधमुपैति रतिर्विशदा । जडभोज्यरसैरपि जीवमनो मदमेति न किं विविधैस्सहसा ॥३८॥ असुघातदुराशयसंवलिता कृतयोऽघविनिर्मितयो नियतम् । तदसंवलितास्तु शुभाः कृतयो बहुपुण्यकरा इति बोध्यमिदम् ॥३९।। यतनासहिता करणिर्भवति स्वकरूपवधो लघुदोषयुतः । अनुबन्धवधस्तु किलाऽयतनाजनितो न हि पूजनया क्रियते ॥४०॥ पवनादिकजीववधायिणी कथमाद्रियते श्रमणैविहृतिः । सलिलादिवदेव भवेन्मरुतामपि जीवविराधनमत्र न किम् ॥४१॥ धृतसंयम एष तनोतु ततस्तनुचालनकर्मविसर्जनिकाम् । स्थिरदेह उपोषितमात्रतपा गतिमेतु परामपि शीघ्रमयम् ॥४२॥ ७४ श्रीमाणिभद्रमहाकाव्यम् ४
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy