SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ मम मातरितीव निशम्य वचस्तव हास्यमिहास्यगतं भवति । सुभगस्मितमुत्सुकनेत्रमिदं मुखमेव तवाऽखिलशर्मकरम् ॥७॥ मम पद्मयतेर्वचनादितरन हि कारणमर्चनबाधनकृत् । गुरवो ह्यतिशायितमातृपदा मम बोधकरा इति तेऽस्तु रतिः ॥८॥ गुरुपार्श्वगतेन मयाऽवगतं प्रतिमाऽर्चनमुत्कटपापमयम् । रविगैव तमोहतदृक्षु मुधापथचारणवारणकारणता ॥९॥ श्रुणु तद्वचसामणुभागमहं कथयामि यथामति तर्कयुतम् । शिशुखेलनकैरिव मद्वचनैस्तव चेतसि मा प्रभवन्तु रुषः ॥१०॥ प्रतिमास्ववचस्सु न जीविततासहचारितरागदशा भवति । तदभावमतिस्तदभाववति रचनीयतया कथमेव भवेत् ॥११॥ अथ जीववियोगवति प्रभवेदितरागदशा जडवस्तुभरे । गृहभित्तिषु पात्रकुलेषु तथा वसनेषु कथं हि न पूज्यपदम् ? ॥१२॥ श्रीमाणिभद्रमहाकाव्यम् ४
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy