SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ममाऽस्ति गोप्यं सुभगे ! किमु त्वद् यतोऽस्ति मद् हन्त ! तवापि गूढम् । अयं हि योगोऽस्ति मिथोऽस्मदीयो विशुद्धिमान् दर्पणदर्पधारी ॥४३॥ सर्मिणी त्वं मम जीवनस्य समग्रविस्तारमुपावृताऽसि । प्रभा यथा चन्द्रमसोऽविभिन्ना नभस्तलालङ्करणं तनोति ॥४४।। अलं वचोभिर्मम मौनमस्तु प्रतीक्ष्यसे त्वं वचनार्थमत्र । मदीयशब्दैस्तव चेन्न शाता त्वदीयशब्दैर्मम साऽस्तु देवि ! ॥४५।। निशम्य पत्युर्वचनानि तस्या बभूव वेगो द्विगुणोऽश्रुपाते । तथापि बाष्पत्रुटदक्षराणि विचक्षणोवाच वधूर्वचांसि ॥४६॥ भवान् मयाऽनेकभवान् सहाऽभूभवत्सहायः शुभवान् ममाऽऽत्मा । त्वयाऽनुसेव्यान् विभवानुपास्य भवे भवे यावदियां भवान्तम् ॥४७।। मनोस्थानां शरणं त्वमेव क्षणे क्षणे संस्मरणं त्वमेव । मुदामरं विस्तरणं त्वमेव व्यथापदां संहरणं त्वमेव ॥४८॥ श्रीमाणिभद्रमहाकाव्यम् ३
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy