SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ तवाङ्गमुष्णं हृदयानुतापैरभाषितामाश्रितमास्यमस्ति । ममाङ्गमास्यञ्च तवानुकारर्निबध्यतामित्थमिवेच्छसि त्वम् ॥३७॥ तवाश्रुबिन्दुप्रतिबिम्बितानि मम स्वरूपाणि निभालय त्वम् । ममैव चित्तस्य विखण्डितस्य मयोपसेव्ये ! शकलानि सन्ति ॥३८॥ त्वदीयदुःखाऽऽकलनेन चित्ते ममाऽभवद् दुःखमवर्णनीयम् । ततोऽधिकं संप्रति दुःखहेतुमजानतो मेऽस्ति तवैव भर्तुः ॥३९॥ तवार्चनीयौ पितरौ कथं स्तः ? कथं कुमार्यस्तव सन्ति सख्यः ? । अवज्ञया केन कदाऽसि दूना ? किमस्ति वाञ्छा तव काचिदूना ? ॥४०॥ गृहादमुष्माद् भगवत्कृपाभिविनिर्गतं भामिनि ! दुःखमात्रम् । प्रिये ! तवोत्सङ्गमुपागतेन भविष्यचिन्तानिहतोऽस्मि तेन ॥४१॥ भवन्ति दुःखानि मनःकृतानि परो निमित्तीभवति प्रबुद्धे ! । मनःस्थली मार्जय मार्दवेन क्षमाधनेनाऽर्जय शुद्धसौख्यम् ॥४२॥ श्रीमाणिभद्रमहाकाव्यम् ३
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy