SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ वास्तवानुगुणितां विचारणामादरेण हृदि धारयत्यसौ । कल्पनामपि च भावनामपि वास्तवादपगतां न धारयेद् ॥३७॥ कार्यनिर्णयमयं विचारितैलक्षशो वितनुते सुनिश्चितम् । तस्य चान्तमविचारितैः फलैरानयत्यनवधिं गतवरः ॥३८॥ कार्यकालमुचितं प्रतीक्षते कार्यबाधकबलं समीक्षते । कार्यकारणविधिं निरीक्षते कार्यमुद्गतफलं तथेक्षते ॥३९॥ तर्कशुद्धपरिणामधारणादुत्थिताऽस्य करणव्यवस्थितिः । अभ्युदायकदशावशाऽभवत् पूर्वयैव रविरुनर्ति श्रयेत् ॥४०।। अम्बुवाह इव नीरधारया वारिराडिव विशालवेलया । मेघकाल इव दिव्यविद्युता कम्बुरुज्ज्व लतयेव संयुतः ॥४१॥ भार्ययाऽनुपमया विराजते पुष्पपुञ्ज इव सौरभाञ्चितः । भूमिजानुखि कन्दराङ्कितोऽ सौ सुधायुत इव स्वधाधिपः ॥४२॥ श्रीमाणिभद्रमहाकाव्यम् २
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy