SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ २६ कल्पिताः कचकृतार्हणायुजोः कर्णयोः कपिश-केसराङ्कयोः । कुड्मलेन सुकुमारकाययोः केलयः कनककर्णपूरयोः ॥७॥ शङ्करेण शिरसा सरिद्वरा धारितेति विजिगीषयेव सः । शुभ्र देहललितोऽञ्जनप्रभैः कुन्तलैर्नु यमुनामधारयत् ॥८॥ नीरजैर्न रविणा न नेन्दुना दिव्यमाननममुष्य सुन्दरम् । अभ्युपैति विमलं सरूपतां तन्मुखेन सदृशं हि तन्मुखम् ॥९॥ कन्धरा सुभगमस्तकन्धरा हारभारमतिसारमादरात् । आदधाति गुणधारणेन हि सार्थकाः खलु भवन्ति शक्तयः ॥ १० ॥ अंसदेशमवलोक्य दूरत एतदीयतनुशक्तिभाविताः । एतनै रविनमस्कृतौ प्रगे सैनिका अगणिता स्मरन्ति तम् ॥ ११॥ अब्ज - मार्दव - विलासिपाणिमान् मांसलोपचितिमत्प्रगण्डवान् । दादर्पित-कर- प्रकोष्ठभागातनोति मधुरौजसोर्युतिम् ॥१२॥ श्रीमाणिभद्रमहाकाव्यम् २
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy