SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ स्मरण भेदः समरस्य केवलमकारजन्योऽस्ति विचार्य तन्ननु । अमुत्र योधैस्समरेषु सत्स्वहो स्मरे निषेधस्सहसैव साध्यते ॥४९।। गजेन्द्रकुम्भान् करवालपातनैविदार्य मुक्ताफलदर्शनोद्धतैः । तथाऽत्र वीरः प्रबलं विहस्यते यथा न सिंहरपि हन्त ! रस्यते ॥५०॥ यमावतारैरिव सङ्गरे भटैः परास्यते दृष्टित एव शात्रवम् । य एव शस्त्रादिपरिग्रहोऽनणुस्स केलिमात्रं दृढदेहधारिणाम् ॥५१॥ तडागनीरः प्रतिबिम्बितातपै रविः सहस्त्रानन एव दृश्यते । तदाननैरेव रविस्स कोमलैविजीयते क्रूरकर: दृगाहतिः ॥५२॥ तरङ्गरेखावलिचित्रिताम्भसां मिथः समास्फालनकारिकम्पनैः । विरच्यतेऽलौकिकशब्द उच्चकैस्तमास्वदन्ते तटशायिनोऽनिशम् ॥५३॥ तटस्थलीस्थापितवस्त्रयामलास्तरन्ति कौपीनधरा नरा इह । तनुं च चित्तं च विमुच्य दूरतो यथाऽन्तरात्मा भगवत्प्रशस्तिकृत् ॥५४॥ श्रीमाणिभद्रमहाकाव्यम् १
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy